अध्याय 99
1 [लॊमष]
ततः सवज्री बलिभिर दैवतैर अभिरक्षितः
आससाद ततॊ वृत्रं सथितम आवृत्य रॊदसी
2 कालकेयैर महाकायैः समन्ताद अभिर कषितम
समुद्यतप्रहरणैः स शृङ्गैर इव पर्वतैः
3 ततॊ युद्धं समभवद देवानां सह दानवैः
मुहूर्तं भरतश्रेष्ठ लॊकत्रास करं महत
4 उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः
आसीत सुतुमुलः शब्दः शरीरेष्व अभिपात्यताम
5 शिरॊभिः परपतद्भिश च अन्तरिक्षान महीतलम
तालैर इव महीपाल वृन्ताद भरष्टैर अदृश्यत
6 ते हेमकवचा भूत्वा कालेयाः परिघायुधाः
तरिदशान अभ्यवर्तन्त दावदग्धा इवाद्रयः
7 तेषां वेगवतां वेगं सहितानां परधावताम
न शेकुस तरिदशाः सॊढुं ते भग्नाः पराद्रवन भयात
8 तान दृष्ट्वा दरवतॊ भीतान सहस्राक्षः पुरंदरः
वृत्रे विवर्धमाने च कश्मलं महद आविशत
9 तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः
सवतेजॊ वयदधाच छक्रे बलम अस्य विवर्धयन
10 विष्णुनाप्यायितं शक्रं दृष्ट्वा देवगणास ततः
सवं सवं तेजः समादध्युस तथा बरह्मर्षयॊ ऽमलाः
11 स समाप्यायितः शक्रॊ विष्णुना दैवतैः सह
ऋषिभिश च महाभागैर बलवान समपद्यत
12 जञात्वा बलस्थं तरिदशाधिपं तु; ननाद वृत्रॊ महतॊ निनादान
तस्य परणादेन धरा दिशश च; खं दयौर नगराश चापि चचाल सर्वम
13 ततॊ महेन्द्रः परमाभितप्तः; शरुत्वा रवं घॊररूपं महान्तम
भये निमग्नस तवरितं मुमॊच; वज्रं महत तस्य वधाय राजन
14 स शक्रवज्राभिहतः पपात; महासुरः काञ्चनमाल्यधारी
यथा महाञ शैलवरः पुरस्तात; स मन्दरॊ विष्णुकरात परमुक्तः
15 तस्मिन हते दैत्य वरे भयार्तः; शक्रः पदुद्राव सरः परवेष्टुम
वज्रं न मेने सवकरात परमुक्तं; वृत्रं हतं चापि भयान न मेने
16 सर्वे च देवा मुदिताः परहृष्टा; महर्षयश चेन्द्रम अभिष्टुवन्तः
सर्वांश च दैत्यांस तवरिताः समेत्य; जघ्नुः सुरा वृत्रवधाभितप्तान
17 ते वध्यमानास तरिदशैस तदानीं; समुद्रम एवाविविशुर भयार्ताः
परविश्य चैवॊदधिम अप्रमेयं; झषाकुलं रत्नसमाकुलं च
18 तदा सम मन्त्रं सहिताः परचक्रुस; तरैलॊक्यनाशार्थम अभिस्मयन्तः
तत्र सम के चिन मतिनिश्चय जञास; तांस तान उपायान अनुवर्णयन्ति
19 तेषां तु तत्र करमकालयॊगाद; घॊरा मतिश चिन्तयतां बभूव
ये सन्ति विद्या तपसॊपपन्नास; तेषां विनाशः परथमं तु कार्यः
20 लॊका हि सर्वे तपसा धरियन्ते; तस्मात तवरध्वं तपसः कषयाय
ये सन्ति के चिद धि वसुंधरायां; तपस्विनॊ धर्मविदश च तज जञाः
तेषां वधः करियतां कषिप्रम एव; तेषु परनष्टेषु जगत परनष्टम
21 एवं हि सर्वे गतबुद्धिभावा; जगद विनाशे परमप्रहृष्टाः
दुर्गं समाश्रित्य महॊर्मिमन्तं; रत्ना करं वरुणस्यालयं सम