अध्याय 55
1 बृहदश्व उवाच
वृते तु नैषधे भैम्या लॊकपाला महौजसः
यान्तॊ ददृशुर आयान्तं दवापरं कलिना सह
2 अथाब्रवीत कलिं शक्रः संप्रेक्ष्य बलवृत्रहा
दवापरेण सहायेन कले बरूहि कव यास्यसि
3 ततॊ ऽबरवीत कलिः शक्रं दमयन्त्याः सवयंवरम
गत्वाहं वरयिष्ये तां मनॊ हि मम तद्गतम
4 तम अब्रवीत परहस्येन्द्रॊ निर्वृत्तः स सवयंवरः
वृतस तया नलॊ राजा पतिर अस्मत्समीपतः
5 एवम उक्तस तु शक्रेण कलिः कॊपसमन्वितः
देवान आमन्त्र्य तान सर्वान उवाचेदं वचस तदा
6 देवानां मानुषं मध्ये यत सा पतिम अविन्दत
ननु तस्या भवेन नयाय्यं विपुलं दण्डधारणम
7 एवम उक्ते तु कलिना परत्यूचुस ते दिवौकसः
अस्माभिः समनुज्ञातॊ दमयन्त्या नलॊ वृतः
8 कश च सर्वगुणॊपेतं नाश्रयेत नलं नृपम
यॊ वेद धर्मान अखिलान यथावच चरितव्रतः
9 यस्मिन सत्यं धृतिर दानं तपः शौचं दमः शमः
धरुवाणि पुरुषव्याघ्रे लॊकपालसमे नृपे
10 आत्मानं स शपेन मूढॊ हन्याच चात्मानम आत्मना
एवंगुणं नलं यॊ वै कामयेच छपितुं कले
11 कृच्छ्रे स नरके मज्जेद अगाधे विपुले ऽपलवे
एवम उक्त्वा कलिं देवा दवापरं च दिवं ययुः
12 ततॊ गतेषु देवेषु कलिर दवापरम अब्रवीत
संहर्तुं नॊत्सहे कॊपं नले वत्स्यामि दवापर
13 भरंशयिष्यामि तं राज्यान न भैम्या सह रंस्यते
तवम अप्य अक्षान समाविश्य कर्तुं साहाय्यम अर्हसि