अध्याय 46

महाभारत संस्कृत - आरण्यकपर्व

1 [ज] अत्यद्भुतम इदं कर्म पार्थस्यामित तेजसः
धृतराष्ट्रॊ महातेजाः शरुत्वा विप्र किम अब्रवीत

2 [वै] शक्र लॊकगतं पार्थं शरुत्वा राजाम्बिका सुतः
दवैपायनाद ऋषिश्रेष्ठात संजयं वाक्यम अब्रवीत

3 शरुतं मे सूत कार्त्स्न्येन कर्म पार्थस्य धीमतः
कच चित तवापि विदितं यथातथ्येन सारथे

4 परमत्तॊ गराम्यधर्मेषु मन्दात्मा पापनिश्चयः
मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति

5 यस्य नित्यम ऋता वाचः सवैरेष्व अपि महात्मनः
तरैलॊक्यम अपि तस्य सयाद यॊद्धा यस्य धनंजयः

6 अस्यतः कर्णिनाराचांस तीक्ष्णाग्रांश च शिलाशितान
कॊ ऽरजुनस्याग्रतस तिष्ठेद अपि मृत्युर जरातिगः

7 मम पुत्रा दुरात्मानः सर्वे मृत्युवशं गताः
येषां युद्धं दुराधर्षैः पाण्डवैः परत्युपस्थितम

8 तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः
अनिशं चिन्तयानॊ ऽपि य एनम उदियाद रथी

9 दरॊणकर्णौ परतीयातां यदि भीष्मॊ ऽपि वा रणे
महान सयात संशयॊ लॊके न तु पश्यामि नॊ जयम

10 घृणी कर्णः परमादी च आचार्यः सथविरॊ गुरुः
अमर्षी बलवान पार्थः संरम्भी दृढविक्रमः

11 भवेत सुतुमुलं युद्धं सर्वशॊ ऽपय अपराजितम
सर्वे हय अस्त्रविदः शूराः सर्वे पराप्ता महद यशः

12 अपि सर्वेश्वरत्वं हि न वाञ्छेरन पराजिताः
वधे नूनं भवेच छान्तिस तेषां वा फल्गुनस्य वा

13 न तु हन्तार्जुनस्यास्ति जेता वास्य न विद्यते
मन्युस तस्य कथं शाम्येन मन्दान परति समुत्थितः

14 तरिदशेश समॊ वीरः खाण्डवे ऽगनिम अतर्पयत
जिगाय पार्थिवान सर्वान राजसूये महाक्रतौ

15 शेषं कुर्याद गिरेर वज्रं निपतन मूर्ध्नि संजय
न तु कुर्युः शराः शेषम अस्तास तात किरीटिना

16 यथा हि किरणा भानॊस तपन्तीह चराचरम
तथा पार्थ भुजॊत्सृष्टाः शरास तप्स्यन्ति मे सुतान

17 अपि वा रथघॊषेण भयार्ता सव्यसाचिनः
परतिभाति विदीर्णेव सर्वतॊ भारती चमूः

18 यद उद्वपन परवपंश चैव बाणान; सथाताततायी समरे किरीटी
सृष्टॊ ऽनतकः सर्वहरॊ विधात्रा; भवेद यथा तद्वद अपारणीयः

19 [स] यद एतत कथितं राजंस तवया दुर्यॊधनं परति
सर्वम एतद यथात्थ तवं नैतन मिथ्या महीपते

20 मन्युना हि समाविष्टाः पाण्डवास ते ऽमितौजसः
दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीम

21 दुःशासनस्य ता वाचः शरुत्वा ते दारुणॊदयाः
कर्णस्य च महाराज न सवप्स्यन्तीति मे मतिः

22 शरुतं हि ते महाराज यथा पार्थेन संयुगे
एकादश तनुः सथाणुर धनुषा परितॊषितः

23 कैरातं वेषम आस्थाय यॊधयाम आस फल्गुनम
जिज्ञासुः सर्वदेवेशः कपर्दी भगवान सवयम

24 तत्रैनं लॊकपालास ते दर्शयाम आसुर अर्जुनम
अस्त्रहेतॊः पराक्रान्तं तपसा कौरवर्षभम

25 नैतद उत्सहते ऽनयॊ हि लब्धुम अन्यत्र फल्गुनात
साक्षाद दर्शनम एतेषाम ईश्वराणां नरॊ भुवि

26 महेश्वरेण यॊ राजन न जीर्णॊ गरस्तमूर्तिमान
कस तम उत्सहते वीरं युद्धे जरयितुं पुमान

27 आसादितम इदं घॊरं तुमुलं लॊमहर्षणम
दरौपदीं परिकर्षद्भिः कॊपयद्भिश च पाण्डवान

28 यत्र विस्फुरमाणौष्ठॊ भीमः पराह वचॊ महत
दृष्ट्वा दुर्यॊधनेनॊरू दरौपद्या दर्शिताव उभौ

29 ऊरू भेत्स्यामि ते पापगदया वज्रकल्पया
तरयॊदशानां वर्षाणाम अन्ते दुर्द्यूत देविनः

30 सर्वे परहरतां शरेष्ठाः सर्वे चामिततेजसः
सर्वे सर्वास्त्रविद्वांसॊ देवैर अपि सुदुर्जयाः

31 मन्ये मन्युसमुद्धूताः पुत्राणां तव संयुगे
अन्तं पार्थाः करिष्यन्ति वीर्यामर्ष समन्विताः

32 [धृ] किं कृतं सूत कर्णेन वदता परुषं वचः
पर्याप्तं वैरम एतावद यत कृष्णा सा सभां गता

33 अपीदानीं मम सुतास तिष्ठेरन मन्दचेतसः
येषां भराता गुरुर जयेष्ठॊ विनये नावतिष्ठते

34 ममापि वचनं सूत न शुश्रूषति मन्दभाक
दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टम अचेतनम

35 ये चास्य सचिवा मन्दाः कर्ण सौबलकादयः
ते ऽपय अस्य भूयसॊ दॊषान वर्धयन्ति विचेतसः

36 सवैरम उक्ता अपि शराः पार्थेनामित तेजसा
निर्दहेयुर मम सुतान किं पुनर मन्युनेरिताः

37 पार्थ बाहुबलॊत्सृष्टा महाचाप विनिःसृताः
दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरान अपि

38 यस्य मन्त्री च गॊप्ता च सुहृच चैव जनार्दनः
हरिस तरैलॊक्यनाथः स किं नु तस्य न निर्जितम

39 इदं च सुमहच चित्रम अर्जुनस्येह संजय
महादेवेन बाहुभ्यां यत समेत इति शरुतिः

40 परत्यक्षं सर्वलॊकस्य खाण्डवे यत्कृतं पुरा
फल्गुनेन सहायार्थे वह्नेर दामॊदरेण च

41 सर्वथा नास्ति मे पुत्रः सामात्यः सह बान्धवः
करुद्धे पार्थे च भीमे च वासुदेवे च सात्वते

अध्याय 1
अध्याय 4