अध्याय 4
1 [व]
ततॊ दिवाकरः परीतॊ दर्शयाम आस पाण्डवम
दीप्यमानः सववपुषा जवलन्न इव हुताशनः
2 यत ते ऽभिलषितं राजन सर्वम एतद अवाप्स्यसि
अहम अन्नं परदास्यामि सप्त पञ्च च ते समाः
3 फलमूलामिषं शाकं संस्कृतं यन महानसे
चतुर्विधं तदन्नाद्यम अक्षय्यं ते भविष्यति
धनं च विविधं तुभ्यम इत्य उक्त्वान्तरधीयत
4 लब्ध्वा वरं तु कौन्तेयॊ जलाद उत्तीर्य धर्मवित
जग्राह पादौ धौम्यस्य भरातॄंश चास्वजताच्युतः
5 दरौपद्या सह संगम्य पश्यमानॊ ऽभययात परभुः
महानसे तदान्नं तु साधयाम आस पाण्डवः
6 संस्कृतं परसवं याति वन्यम अन्नं चतुर्विधम
अक्षय्यं वर्धते चान्नं तेन भॊजयते दविजान
7 भुक्तवत्सु च विप्रेषु भॊजयित्वानुजान अपि
शेषं विघस संज्ञं तु पश्चाद भुङ्क्ते युधिष्ठिरः
युधिष्ठिरं भॊजयित्वा शेषम अश्नाति पार्षती
8 एवं दिवाकरात पराप्य दिवाकरसमद्युतिः
कामान मनॊ ऽभिलषितान बराह्मणेभ्यॊ ददौ परभुः
9 पुरॊहित पुरॊगाश च तिथि नक्षत्रपर्वसु
यज्ञियार्थः परवर्तन्ते विधिमन्त्रप्रमाणतः
10 ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः
दविजसंघैः परिवृताः परययुः काम्यकं वनम