अध्याय 279

महाभारत संस्कृत - आरण्यकपर्व

1 [मार्क] अथ कन्याप्रदाने स तम एवार्थं विचिन्तयन
समानिन्ये च तत सर्वं भाण्डं वैवाहिकं नृपः

2 ततॊ वृद्धान दविजान सर्वान ऋत्विजः सपुरॊहितान
समाहूय तिथौ पुण्ये परययौ सह कन्यया

3 मेध्यारण्यं स गत्वा च दयुमत्सेनाश्रमं नृपः
पद्भ्याम एव दविजैः सार्धं राजर्षिं तम उपागमत

4 तत्रापश्यन महाभागं शालवृक्षम उपाश्रितम
कौश्यां बृस्यां समासीनं चक्षुर हीनं नृपं तदा

5 स राजा तस्य राजर्षेः कृत्वा पूजां यथार्हतः
वाचा सुनियतॊ भूत्वा चकारात्म निवेदनम

6 तस्यार्घ्यम आसनं चैव गां चावेद्य स धर्मवित
किम आगमनम इत्य एवं राजा राजानम अब्रवीत

7 तस्य सर्वम अभिप्रायम इतिकर्तव्यतां च ताम
सत्यवन्तं समुद्दिश्य सर्वम एव नयवेदयत

8 [अष्वपति] सावित्री नाम राजर्षे कन्येयं मम शॊभना
तां सवधर्मेण धर्मज्ञ सनुषार्थे तवं गृहाण मे

9 चयुताः सम राज्याद वनवासम आश्रिताश; चराम धर्मं नियतास तपस्विनः
कथं तव अनर्हा वनवासम आश्रमे; सहिष्यते कलेशम इमं सुता तव

10 [अष्वपति] सुखं च दुःखं च भवाभवात्मकं; यदा विजानाति सुताहम एव च
न मद्विधे युज्यति वाक्यम ईदृशं; विनिश्चयेनाभिगतॊ ऽसमि ते नृप

11 आशां नार्हसि मे हन्तुं सौहृदाद रणयेन च
अभितश चागतं परेम्णा परत्याख्यातुं न मार्हसि

12 अनुरूपॊ हि संयॊगे तवं ममाहं तवापि च
सनुषां परतीच्छ मे कन्यां भार्यां सत्यवतः सुताम

13 [दयुमत्सेन] पूर्वम एवाभिलषितः संभन्धॊ मे तवया सह
भरष्टराज्यस तव अहम इति तत एतद विचारितम

14 अभिप्रायस तव अयं यॊ मे पूर्वम एवाभिकाङ्क्षितः
स निर्वर्ततु मे ऽदयैव काङ्क्षितॊ हय असि मे ऽतिथिः

15 [मार्क] ततः सर्वान समानीय दविजान आश्रमवासिनः
यथाविधि समुद्वाहं कारयाम आसतुर नृपौ

16 दत्त्वा तव अश्वपतिः कन्यां यथार्हं च परिच्छदम
ययौ सवम एव भवनं युक्तः परमया मुदा

17 सत्यवान अपि भार्यां तां लब्ध्वा सर्वगुणान्विताम
मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम

18 गते पितरि सर्वाणि संन्यस्याभरणानि सा
जगृहे वल्कलान्य एव वस्त्रं काषायम एव च

19 परिचारैर गुणैश चैव परश्रयेण दमेन च
सर्वकामक्रियाभिश च सर्वेषां तुष्टिम आवहत

20 शवश्रूं शरीरसत्कारैः सर्वैर आछादनादिभिः
शवशुरं देवकार्यैश च वाचः संयमनेन च

21 तथैव परियवादेन नैपुणेन शमेन च
रहॊ चैवॊपचारेण भर्तारं पर्यतॊषयत

22 एवं तत्राश्रमे तेषां तदा निवसतां सताम
कालस तपस्यतां कश चिद अतिचक्राम अभारत

23 सावित्र्यास तु शयानायास तिष्ठन्त्याश च दिवानिशम
नारदेन यद उक्तं तद वाक्यं मनसि वर्तते

अध्याय 2
अध्याय 2