अध्याय 255

महाभारत संस्कृत - आरण्यकपर्व

1 [वै] संतिष्ठत परहरत तूर्णं विपरिधावत
इति सम सैधवॊ राजा चॊदयाम आस तान नृपान

2 ततॊ घॊरतरः शब्दॊ रणे समभवत तदा
भीमार्जुनयमान दृष्ट्वा सैन्यानां सयुधिष्ठिरान

3 शिबिसिन्धुत्रिगर्तानां विषादश चाप्य अजायत
तान दृष्ट्वा पुरुषव्याघ्रान वयाघ्रान इव बलॊत्कटान

4 हेमचित्रसमुत्सेधां सर्वशैक्यायसीं गदाम
परगृह्याभ्यद्रवद भीमः सैन्धवं कालचॊदितम

5 तदन्तरम अथावृत्य कॊटिकाश्यॊ ऽभयहारयत
महता रथवंशेन परिवार्य वृकॊदरम

6 शक्तितॊमरनाराचैर वीरबाहुप्रचॊदितैः
कीर्यमाणॊ ऽपि बहुभिर न सम भीमॊ ऽभयकम्पत

7 गजं तु सगजारॊहं पदातींश च चतुर्दश
जघान गदया भीमः सैन्धव धवजिनीमुखे

8 पार्थः पञ्चशताञ शूरान पार्वतीयान महारथान
परीप्समानः सौवीरं जघान धवजिनीमुखे

9 राजा सवयं सुवीराणां परवराणां परहारिणाम
निमेष मात्रेण शतं जघान समरे तदा

10 ददृशे नकुलस तत्र रथात परस्कन्द्य खड्गधृक
सिरांसि पादरक्षाणां बीजवत परवपन मुहुः

11 सहदेवस तु संयाय रथेन जग यॊधिनः
पातयाम आस नाराचैर दरुमेभ्य इव बर्हिणः

12 ततस तरिगर्गः सधनुर अवतीर्य महारथात
गदया चतुरॊ वाहान राज्ञस तस्य तदावधीत

13 तम अभ्याशगतं राजा पदातिं कुन्तिनन्दनः
अर्धचन्द्रेण बाणेन विव्याधॊरसि धर्मराट

14 स भिन्नहृदयॊ वीरॊ वक्त्राच छॊणितम ऊद्वमन
पपाताभिमुखः पार्थं छिन्नमूल इव दरुमः

15 इन्द्रसेन दवितीयस तु रथात परस्कन्द्य धर्मराज
हताश्वः सहदेवस्य परतिपेदे महारथम

16 नकुलं तव अभिसंधाय कषेमं करमहामुखौ
उभाव उभयतस तीक्ष्णैः शरवर्षैर अवर्षताम

17 तौ शरैर अभिवर्षन्तौ जीमूताव इव वार्षिकौ
एकैकेन विपाठेन जघ्ने माद्रवतीसुतः

18 तरिगर्तराजः सुरथस तस्याथ रथधूर गतः
रथम आक्षेपयाम आस गजेन गजयानवित

19 नकुलस तव अपभीस तस्माद रथाच चर्मासि पाणिमान
उद्भ्रान्तं सथानम आस्थाय तस्थौ गिरिर इवाचलः

20 सुरथस तं गजवरं वधाय नकुलस्य तु
परेषयाम आस सक्रॊधम अभ्युच्छ्रितकरं ततः

21 नकुलस तस्य नागस्य समीपपरिवर्तिनः
सविषाणं भुजं मूले खड्गेन निरकृन्तत

22 स विनद्य महानादं जगः कङ्कण भूषणः
पतन्न अवाक्शिरा भूमौ हस्त्यारॊहान अपॊथयत

23 स तत कर्म महत कृत्वा शूरॊ माद्रवतीसुतः
भीमसेनरथं पराप्य शर्म लेभे महारथः

24 भीमस तव आपततॊ राज्ञः कॊटिकाश्यस्य संगरे
सूतस्य नुदतॊ वाहान कषुरेणापाहरच छिरः

25 न बुबॊध हतं सूतं स राजा बाहुशालिना
तस्याश्वा वयद्रवन संख्ये हतसूतास ततस ततः

26 विमुखं हतसूतं तं भीमः परहरतां वरः
जघान तलयुक्तेन परासेनाभ्येत्य पाण्डवः

27 दवादशानां तु सर्वेषां सौवीराणां धनंजयः
चकर्त निषितैर भल्लैर धनूंषि च शिरांसि च

28 शिबीन इक्ष्वाकुमुख्यांश च तरिगर्तान सैधवान अपि
जघानातिरथः संख्ये बाणगॊचरम आगतान

29 सादिताः परत्यदृश्यन्त बहवः सव्यसाचिना
सपताकाश च मातङ्गाः साद्वजाश च महारथाः

30 परच्छाद्य पृथिवीं तस्थुः सर्वम आयॊधनं परति
शरीराण्य अशिरस्कानि विदेहानि शिरांसि च

31 शवगृध्रकङ्ककाकॊल भासगॊमायुवायसाः
अतृप्यंस तत्र वीराणां हतानां मांसशॊणितैः

32 हतेषु तेषु वीरेषु सिन्धुराजॊ जयद्रथः
विमुच्य कृष्णां संत्रस्तः पलायनपरॊ ऽभवत

33 स तस्मिन संकुले सैन्ये दरौपदीम अवतार्य वै
पराणप्रेप्सुर उपाधावद वनं येन नराधमः

34 दरौपदीं धर्मराजस तु दृष्ट्वा धौम्य पुरस्कृताम
माद्रीपुत्रेण वीरेण रथम आरॊपयत तदा

35 ततस तद विद्रुतं सैन्यम अपयाते जयद्रथे
आदिश्यादिश्य नाराचैर आजघान वृकॊदरः

36 सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम
वारयाम आस निघ्नन्तं भीमं सैन्धव सैनिकान

37 [अर्ज] यस्यापचारात पराप्तॊ ऽयम अस्मान कलेशॊ दुरासदः
तम अस्मिन समरॊद्देशे न पश्यामि जयद्रथम

38 तम एवान्विष भद्रं ते किं ते यॊधैर निपातितैः
अनामिषम इदं कर्म कथं वा मन्यते भवान

39 [वै] इत्य उक्तॊ भीमसेनस तु गुडाकेशेन धीमता
युधिष्ठिरम अभिप्रेक्ष्य वाग्मी वचनम अब्रवीत

40 हतप्रवीरा रिपवॊ भूयिष्ठं विद्रुता दिशः
गृहीत्वा दरौपदीं राजन निवर्ततु भवान इतः

41 यमाभ्यां सह राजेन्द्र धौम्येन च महात्मना
पराप्याश्रमपदं राजन दरौपदीं परिसान्त्वय

42 न हि मे मॊक्ष्यते जीवन मूढः सैन्धवकॊ नृपः
पातालतलसंस्थॊ ऽपि यदि शक्रॊ ऽसय सारथिः

43 [य] न हन्तव्यॊ महाबाहॊ दुरात्मापि स सैन्धवः
उःशलाम अभिसंस्मृत्य गान्धारीं च यशस्विनीम

44 [वै] तच छरुत्वा दरौपदी भीमम उवाच वयाकुलेन्द्रिया
कुपिता हरीमती पराज्ञा पती भीमार्जुनाव उभौ

45 कर्तव्यं चेत परियं मह्यं वध्यः स पुरुषाधमः
सैन्धवापसदः पापॊ दुर्मतिः कुलपांसनः

46 भार्याभिहर्ता निर्वैरॊ यश च राज्यहरॊ रिपुः
याचमानॊ ऽपि संग्रामे न स जीवितुम अर्हति

47 इत्य उक्तौ तौ नरव्याघ्रौ ययतुर यत्र सैन्धवः
राजा निववृते कृष्णाम आदाय सपुरॊहितः

48 स परविश्याश्रमपदं वयपविद्धबृसी घटम
मार्कण्डेयाधिभिर विप्रैर अनुकीर्णं ददर्श ह

49 दरौपदीम अनुशॊचद्भिर बराह्मणैस तैः समागतैः
समियाय मरा पराज्ञः सभार्यॊ भरातृमध्यगः

50 ते सम तं मुदिता दृष्ट्वा पुनर अभ्यागतं नृपम
जित्वा तान सिन्धुसौवीरान दरौपदीं चाहृतां पुनः

51 स तैः परिवृतॊ राजा तत्रैवॊपविवेश ह
परविवेशाश्रमं कृष्णा यमाभ्यां सह भामिनी

52 भीमार्जुनाव अपि शरुत्वा करॊशमात्रगतं रिपुम
सवयम अश्वांस तुदन्तौ तौ जवेनैवाभ्यधावताम

53 इदम अत्यद्भुतं चात्र चकार पुरुषॊ ऽरजुनः
करॊशमात्रगतान अश्वान सैन्धवस्य जघान यत

54 स हि दिव्यास्त्रसंपन्नः कृच्छ्रकाले ऽपय असंभ्रमः
अकरॊद दुष्करं कर्म शरैर अस्त्रानुमन्त्रितैः

55 ततॊ ऽभयधावतां वीराव उभौ भीम धनंजयौ
हताश्वं सैन्धवं भीतम एकं वयाकुलचेतसम

56 सैन्धवस तु हतान दृष्ट्वा तथाश्वान सवान सुदुःखितः
दृष्ट्वा विक्रमकर्माणि कुर्वाणं च धनंजयम
पलायनकृतॊत्साहः पराद्रवद येन वै वनम

57 सैन्धवं तवाभिसंप्रेक्ष्य पराक्रान्तं पलायने
अनुयाय महाबाहुः फल्गुनॊ वाक्यम अब्रवीत

58 अनेन वीर्येण कथं सत्रियं परार्थयसे बलात
राजपुत्र निवर्तस्व न ते युक्तं पलायनम
कथं चानुचरान हित्वा शत्रुमध्ये पलायसे

59 इत्य उच्यमानः पार्थेन सैधवॊ न नयवर्तत
तिष्ठ तिष्ठेति तं भीमः सहसाभ्यद्रवद बली
मा वधीर इति पार्थस तं दयावान अभ्यभाषत

अध्याय 2
अध्याय 2