अध्याय 238
1 [दुर]
चित्रसेनं समागम्य परहसन्न अर्जुनस तदा
इदं वचनम अक्लीबम अब्रवीत परवीरहा
2 भरातॄन अर्हसि नॊ वीर मॊक्तुं गन्धर्वसत्तम
अनर्हा धर्षणं हीमे जीवमानेषु पाण्डुषु
3 एवम उक्तस तु गन्धर्वः पाण्डवेन महात्मना
उवाच यत कर्ण वयं मन्त्रयन्तॊ विनिर्गताः
दरष्टारः सम सुखाद धीनान सदारान पाण्डवान इति
4 तस्मिन्न उच्चार्यमाणे तु गन्धर्वेण वचस्य अथ
भूमेर विवरम अन्वैच्छं परवेष्टुं वरीडयान्वितः
5 युधिष्ठिरम अथागम्य गन्धर्वाः सह पाण्डवैः
अस्मद दुर्मन्त्रितं तस्मै बद्धांश चास्मान नयवेदयन
6 सत्रीसमक्षम अहं दीनॊ बद्धः शत्रुवशं गतः
युधिष्ठिरस्यॊपहृतः किं नु दुःखम अतः परम
7 ये मे निराकृता नित्यं रिपुर येषाम अहं सदा
तैर मॊक्षितॊ ऽहं दुर्बुद्धिर दत्तं तैर जीवितं च मे
8 पराप्तः सयां यद्य अहं वीरवधं तस्मिन महारणे
शरेयस तद भविता मह्यम एवं भूतं न जीवितम
9 भवेद यशॊ पृथिव्यां मे खयातं गन्धर्वतॊ वधात
पराप्ताश च लॊकाः पुण्याः सयुर महेन्द्र सदने ऽकषयाः
10 यत तव अद्य मे वयवसितं तच छृणुध्वं नरर्षभाः
इह परायम उपासिष्ये यूयं वरजत वै गृहान
भरातरश चैव मे सर्वे परयान्त्व अद्य पुरं परति
11 कर्णप्रभृतयश चैव सुहृदॊ बान्धवाश च ये
दुःशासनं पुरक्कृत्य परयान्त्व अद्य पुरं परति
12 न हय अहं परतियास्यामि पुरं शत्रुनिराकृतः
शत्रुमानापहॊ भूत्वा सुहृदां मानकृत तथा
13 स सुहृच्छॊकदॊ भूत्वा शत्रूणां हर्षवर्धनः
वारणाह्वयम आसाद्य किं वक्ष्यामि जनाधिपम
14 भीष्मॊ दरॊणः कृपॊ दरौणिर विदुरः संजयस तथा
बाह्लीकः सॊमदत्तश च ये चान्ये वृद्धसंमताः
15 बराह्मणाः शरेणि मुख्याश च तथॊदासीन वृत्तयः
किं मां वक्ष्यन्ति किं चापि परतिवक्ष्यामि तान अहम
16 रिपूणां शिरसि सथित्वा तथा विक्रम्य चॊरसि
आत्मदॊषात परिभ्रष्टः कथं वक्ष्यामि तान अहम
17 दुर्विनीताः शरियं पराप्य विद्याम ऐश्वर्यम एव च
तिष्ठन्ति नचिरं भद्रे यथाहं मदगर्वितः
18 अहॊ बत यथेदं मे कष्टं दुश्चरितं कृतम
सवयं दुर्बुद्धिना मॊहाद येन पराप्तॊ ऽसमि संशयम
19 तस्मात परायम उपासिष्ये न हि शक्ष्यामि जीवितुम
चेतयानॊ हि कॊ जीवेत कृच्छ्राच छत्रुभिर उद्धृतः
20 शत्रुभिश चावहसितॊ मानी पौरुषवर्जितः
पाण्डवैर विक्रमाढ्यैश च सावमानम अवेक्षितः
21 [वै]
एवं चिन्तापरिगतॊ दुःशासनम अथाब्रवीत
दुःशासन निबॊधेदं वचनं मम भारत
22 परतीच्छ तवं मया दत्तम अभिषेकं नृपॊ भव
परशाधि पृथिवीं सफीतां कर्ण सौबल पालिताम
23 भरातॄन पालय विस्रब्धं मरुतॊ वृत्रहा यथा
बान्धवास तवॊपजीवन्तु देवा इव शतक्रतुम
24 बराह्मणेषु सदा वृत्तिं कुर्वीथाश चाप्रमादतः
बन्धूनां सुहृदां चैव भवेथास तवं गतिः सदा
25 जञातींश चाप्य अनुपश्येथा विष्णुर देवगणान इव
गुरवः पालनीयास ते गच्छ पालय मेदिनीम
26 नन्दयन सुहृदः सर्वाञ शात्रवांश चावभर्त्सयन
कण्ठे चैनं परिष्वज्य गम्यताम इत्य उवाच ह
27 तस्य तद वचनं शरुत्वा दीनॊ दुःशासनॊ ऽबरवीत
अश्रुकण्ठः सुदुःखार्तः पराञ्जलिः परणिपत्य च
सगद्गदम इदं वाक्यं भरातरं जयेष्ठम आत्मनः
28 परसीदेत्य अपतद भूमौ दूयमानेन चेतसा
दुःखितः पादयॊस तस्य नेत्रजं जलम उत्सृजन
29 उक्तवांश च नरव्याघ्रॊ नैतद एवं भविष्यति
विरीयेत सनगा भूमिर दयौश चापि शकलीभवेत
रविर आत्मप्रभां जह्यात सॊमः शीतांशुतां तयजेत
30 वायुः शैघ्र्यम अथॊ जह्याद धिमवांश च परिव्रजेत
शुष्येत तॊयं समुद्रेषु वह्निर अप्य उष्णतां तयजेत
31 न चाहं तवदृते राजन परशासेयं वसुंधराम
पुनः पुनः परसीदेति वाक्यं चेदम उवाच ह
तवम एव नः कुले राजा भविष्यसि शतं समाः
32 एवम उक्त्वा स राजेन्द्र सस्वनं पररुरॊद ह
पादौ संगृह्य मानार्हौ भरातुर जयेष्ठस्य भारत
33 तथा तौ दुःखितौ दृष्ट्वा दुःशासन सुयॊधनौ
अभिगम्य वयथाविष्टः कर्णस तौ परत्यभाषत
34 विषीदथः किं कौरव्यौ बालिश्यात पराकृताव इव
न शॊकः शॊचमानस्य विनिवर्तेत कस्य चित
35 यदा च शॊचतः शॊकॊ वयसनं नापकर्षति
सामर्थ्यं किं तव अतः शॊके शॊचमानौ परपश्यथः
धृतिं गृह्णीत मा शत्रूञ शॊचन्तौ नन्दयिष्यथः
36 कर्तव्यं हि कृतं राजन पाण्डवैस तव मॊक्षणम
नित्यम एव रियं कार्यं राज्ञॊ विषयवासिभिः
पाल्यमानास तवया ते हि निवसन्ति गतज्वराः
37 नार्हस्य एवंगते मन्युं कर्तुं पराकृतवद यथा
विषण्णास तव सॊदर्यास तवयि परायं समास्थिते
उत्तिष्ठ वरज भद्रं ते समाश्वसय सॊदरान
38 राजन्न अद्यावगच्छामि तवेह लघुसत्त्वताम
किम अत्र चित्रं यद वीर मॊक्षितः पाण्डवैर असि
सद्यॊ वशं समापन्नः शत्रूणां शत्रुकर्शन
39 सेना जीवैश च कौरव्य तथा विषयवासिभिः
अज्ञातैर यदि वा जञातैः कर्तव्यं नृपतेः परियम
40 परायॊ परधानाः पुरुषाः कषॊभयन्त्य अरिवाहिनीम
निगृह्यन्ते च युद्धेषु मॊक्ष्यन्ते च सवसैनिकैः
41 सेना जीवाश च ये राज्ञां विषये सन्ति मानवाः
तैः संगम्य नृपार्थाय यतितव्यं यथातथम
42 यद्य एवं पाण्डवै राजन भवद्विषयवासिभिः
यदृच्छया मॊक्षितॊ ऽदय तत्र का परिदेवना
43 न चैतत साधु यद राजन पाण्डवास तवां नृपॊत्तम
सवसेनया संप्रयान्तं नानुयान्ति सम पृष्ठतः
44 शूराश च बलवन्तश च संयुगेष्व अपलायिनः
भवतस ते सभायां वै परेष्यतां पूर्वम आगताः
45 पाण्डवेयानि रत्नानि तवम अद्याप्य उपभुञ्जसे
सत्त्वस्थान पाण्डवान पश्य न ते परायम उपाविशन
उत्तिष्ठ राजन भद्रं ते न चिन्तां कर्तुम अर्हसि
46 अवश्यम एव नृपते राज्ञॊ विषयवासिभिः
परियाण्य आचरितव्यानि तत्र का परिदेवना
47 मद्वाक्यम एतद राजेन्द्र यद्य एवं न करिष्यसि
सथास्यामीह भवत पादौ शुश्रूषन्न अरिमर्दन
48 नॊत्सहे जीवितुम अहं तवद्विहीनॊ नरर्षभ
परायॊपविष्टस तु नृपराज्ञां हास्यॊ भविष्यसि
49 [वै]
एवम उक्तस तु कर्णेन राजा दुर्यॊधनस तदा
नैवॊत्थातुं मनॊ चक्रे सवर्गाय कृतनिश्चयः