अध्याय 232

महाभारत संस्कृत - आरण्यकपर्व

1 [य] अस्मान अभिगतांस तात भयार्ताञ शरणैषिणः
कौरवान विषमप्राप्तान कथं बरूयास तम ईदृशम

2 भवन्ति भेदा जञातीनां कलहाश च वृकॊदर
परसक्तानि च वैराणि जञातिधर्मॊ न नश्यति

3 यदा तु कश चिज जञातीनां बाह्यः परार्थयते कुलम
न मर्षयन्ति तत सन्तॊ बाह्येनाभिप्रमर्षणम

4 जानाति हय एष दुर्बुद्धिर अस्मान इह चिरॊषितान
स एष परिभूयास्मान अकार्षीद इदम अप्रियम

5 दुर्यॊधनस्य गरहणाद गन्धर्वेण बलाद रणे
सत्रीणां बाह्याभिमर्शाच च हतं भवति नः कुलम

6 शरणं च परपन्नानां तराणार्थं च कुलस्य नः
उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत माचिरम

7 अर्जुनश च यमौ चैव तवं च भीमापराजितः
मॊक्षयध्वं धार्तराष्ट्रं हरियमाणं सुयॊधनम

8 एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः
इन्द्रसेनादिभिः सूतैः संयताः कनकध्वजाः

9 एतान आस्थाय वै तात गन्धर्वान यॊद्धुम आहवे
सुयॊधनस्य मॊक्षाय परयतध्वम अतन्द्रिताः

10 य एव कश चिद राजन्यः शरणार्थम इहागतम
परं शक्त्याभिरक्षेत किं पुनस तवं वृकॊदर

11 क इहान्यॊ भवेत तराणम अभिधावेति चॊदितः
पराञ्जलिं शरणापन्नं दृष्ट्वा शत्रुम अपि धरुवम

12 वरप्रदानं राज्यं च पुत्र जन्म च पाण्डव
शत्रॊश च मॊक्षणं कलेशात तरीणि चैकं च तत समम

13 किं हय अभ्यधिकम एतस्माद यद आपन्नः सुयॊधनः
तवद बाहुबलम आश्रित्य जीवितं परिमार्गति

14 सवयम एव परधावेयं यदि न सयाद वृकॊदर
विततॊ ऽयं करतुर वीर न हि मे ऽतर विचारणा

15 साम्नैव तु यथा भीम मॊक्षयेथाः सुयॊधनम
तथा सर्वैर उपायैस तवं यतेथाः कुरुनन्दन

16 न साम्ना परतिपद्येत यदि गन्धर्वराड असौ
पराक्रमेण मृदुना मॊक्षयेथाः सुयॊधनम

17 अथासौ मृदु युद्धेन न मुञ्चेद भीमकौरवान
सर्वॊपायैर विमॊच्यास ते निगृह्य परिपन्थिनः

18 एतावद धि मया शक्यं संदेष्टुं वै वृकॊदर
वैताने कर्मणि तते वर्तमाने च भारत

19 [वै] अजातशत्रॊर वचनं तच छरुत्वा तु धनंजयः
परतिजज्ञे गुरॊर वाक्यं कौरवाणां विमॊक्षणम

20 [अर्ज] यदि साम्ना न मॊक्ष्यन्ति गन्धवा धृतराष्ट्रजान
अद्य गन्धर्वराजस्य भूमिः पास्यति शॊणितम

21 [वै] अर्जुनस्य तु तां शरुत्वा परतिज्ञां सत्यवादिनः
कौरवाणां तदा राजन पुनः परत्यागतं मनः

अध्याय 2
अध्याय 2