अध्याय 23

महाभारत संस्कृत - आरण्यकपर्व

1 [वा] ततॊ ऽहं भरतश्रेष्ठ परगृह्य रुचिरं धनुः
शरैर अपातयं सौभाच छिरांसि विबुधद्विषाम

2 शरांश चाशीविषाकारान ऊर्ध्वगांस तिग्मतेजसः
अप्रैषं शाल्वराजाय शार्ङ्गमुक्तान सुवाससः

3 ततॊ नादृश्यत तदा सौभं कुरुकुलॊद्वह
अन्तर्हितं माययाभूत ततॊ ऽहं विस्मितॊ ऽभवम

4 अथ दानवसंघास ते विकृताननमूर्धजाः
उदक्रॊशन महाराज विष्ठिते मयि भारत

5 ततॊ ऽसत्रं शब्दसाहं वै तवरमाणॊ महाहवे
अयॊजयं तद वधाय ततः शब्द उपारमत

6 हतास ते दानवाः सर्वे यैः स शब्द उदीरितः
शरैर आदित्यसंकाशैर जवलितैः शब्दसाधनैः

7 तस्मिन्न उपरते शब्दे पुनर एवान्यतॊ ऽभवत
शब्दॊ ऽपरॊ महाराज तत्रापि पराहरं शरान

8 एवं दश दिशः सर्वास तिर्यग ऊर्ध्वं च भारत
नादयाम आसुर असुरास ते चापि निहता मया

9 ततः पराग्ज्यॊतिषं गत्वा पुनर एव वयदृश्यत
सौभं कामगमं वीर मॊहयन मम चक्षुषी

10 ततॊ लॊकान्त करणॊ दानवॊ वानराकृतिः
शिला वर्षेण सहसा सहसा मां समावृणॊत

11 सॊ ऽहं पर्वत वर्षेण वध्यमानः समन्ततः
वल्मीक इव राजेन्द्र पर्वतॊपचितॊ ऽभवम

12 ततॊ ऽहं पर्वत चितः सहयः सह सारथिः
अप्रख्यातिम इयां राजन सध्वजः पर्वतैश चितः

13 ततॊ वृणि परवीरा यॊ ममासन सैनिकास तदा
ते भयार्ता दिशः सर्वाः सहसा विप्रदुद्रुवुः

14 ततॊ हाहाकृतं सर्वम अभूत किल विशां पते
दयौश च भूमिश च खं चैवादृश्यमाने तथा मयि

15 ततॊ विषण्णमनसॊ मम राजन सुहृज्जनाः
रुरुदुश चुक्रुशुश चैव दुःखशॊकसमन्विताः

16 दविषतां च परहर्षॊ ऽभूद आर्तिश चाद्विषताम अपि
एवं विजितवान वीर पश्चाद अश्रौषम अच्युत

17 ततॊ ऽहम अस्त्रं दयितं सर्वपाषाण भेदनम
वज्रम उद्यम्य तान सर्वान पर्वतान समशातयम

18 ततः पर्वत भारार्ता मन्दप्राणविचेष्टिताः
हया मम महाराज वेपमाना इवाभवन

19 मेघजालम इवाकाशे विदार्याभ्युदितं रविम
दृष्ट्वा मां बान्धवाः सर्वे हर्षम आहारयन पुनः

20 ततॊ माम अब्रवीत सूतः पराञ्जलिः परणतॊ नृप
साधु संपश्य वार्ष्णेय शाल्वं सौभपतिं सथितम

21 अलं कृष्णावमन्यैनं साधु यत्नं समाचर
मार्दवं सखितां चैव शाल्वाद अद्य वयपाहर

22 जहि शाल्वं महाबाहॊ मैनं जीवय केशव
सर्वैः पराक्रमैर वीरवध्यः शत्रुर अमित्रहन

23 न शत्रुर अवमन्तव्यॊ दुर्बलॊ ऽपि बलीयसा
यॊ ऽपि सयात पीढगः कश चित किं पुनः समरे सथितः

24 स तवं पुरुषशार्दूल सर्वयत्नैर इमं परभॊ
जहि वृष्णिकुलश्रेष्ठ मा तवां कालॊ ऽतयगात पुनः

25 नैष मार्दवसाध्यॊ वै मतॊ नापि सखा तव
येन तवं यॊधितॊ वीर दवारका चावमर्दिता

26 एवमादि तु कौन्तेय शरुत्वाहं सारथेर वचः
तत्त्वम एतद इति जञात्वा युद्धे मतिम अधारयम

27 वधाय शाल्वराजस्य सौभस्य च निपातने
दारुकं चाब्रुवं वीर मुहूर्तं सथीयताम इति

28 ततॊ ऽपरतिहतं दिव्यम अभेद्यम अतिवीर्यवत
आग्नेयम अस्त्रं दयितं सर्वसाहं महाप्रभम

29 यक्षाणां राक्षसाणां च दानवानां च संयुगे
राज्ञां च परतिलॊमानां भस्मान्त करणं महत

30 कषुरान्तम अमलं चक्रं कालान्तकयमॊपमम
अभिमन्त्र्याहम अतुलं दविषतां च निबर्हणम

31 जहि सौभं सववीर्येण ये चात्र रिपवॊ मम
इत्य उक्त्वा भुजवीर्येण तस्मै पराहिणवं रुषा

32 रूपं सुदर्शनस्यासीद आकाशे पततस तदा
दवितीयस्येव सूर्यस्य युगान्ते परिविष्यतः

33 तत समासाद्य नगरं सौभं वयपगतत्विषम
मध्येन पाटयाम आस करकचॊ दार्व इवॊच्छ्रितम

34 दविधाकृतं ततः सौभं सुदर्शन बलाद धतम
महेश्वर शरॊद्धूतं पपात तरिपुरं यथा

35 तस्मिन निपतिते सौभे चक्रम आगत करं मम
पुनश चॊद्धूय वेगेन शाल्वाल्येत्य अहम अब्रुवम

36 ततः शाल्वं गदां गुर्वीम आविध्यन्तं महाहवे
दविधा चकार सहसा परजज्वाल च तेजसा

37 तस्मिन निपतिते वीरे दानवास तरस्तचेतसः
हाहाभूता दिशॊ जग्मुर अर्दिता मम सायकैः

38 ततॊ ऽहं समवस्थाप्य रथं सौभसमीपतः
शङ्खं परध्माप्य हर्षेण मुहृदः पर्यहर्षयम

39 तन मेरुशिखराकारं विध्वस्ताट्टाल गॊपुरम
दह्यमानम अभिप्रेक्ष्य सत्रियस ताः संप्रदुद्रुवुः

40 एवं निहत्य समरे शाल्वं सौभं निपात्य च
आनर्तान पुनर आगम्य सुहृदां परीतिम आवहम

41 एतस्मात कारणाद राजन नागमं नागसाह्वयम
यद्य अगां परवीरघ्न न हि जीवेत सुयॊधनः

42 [वै] एवम उक्त्वा महाबाहुः कौरवं पुरुषॊत्तमः
आमन्त्र्य परययौ धीमान पाण्डवान मधुसूदनः

43 अभिवाद्य महाबाहुर धर्मराजं युधिष्ठिरम
राज्ञा मूर्धन्य उपाघ्रातॊ भीमेन च महाभुजः

44 सुभद्राम अभिमन्युं च रथम आरॊप्य काञ्चनम
आरुरॊह रथं कृष्णः पाण्डवैर अभिपूजितः

45 सैन्यसुग्रीव युक्तेन रथेनादित्यवर्चसा
दवारकां परययौ कृष्णः समाश्वास्य युधिष्ठिरम

46 ततः परयाते दाशार्हे धृष्टद्युम्नॊ ऽपि पार्षतः
दरौपदेयान उपादाय परययौ सवपुरं तदा

47 धृष्टकेतुः सवसारं च समादायाथ चेदिराट
जगाम पाण्डवान दृष्ट्वा रम्यां शुक्तिमतीं पुरीम

48 केकयाश चाप्य अनुज्ञाताः कौन्तेयेनामितौजसा
आमन्त्र्य पाण्डवान सर्वान परययुस ते ऽपि भारत

49 बराह्मणाश च विशश चैव तथा विषयवासिनः
विसृज्यमानाः सुभृशं न तयजन्ति सम पाण्डवान

50 सामवायः स राजेन्द्र सुमहाद्भुत दर्शनः
आसीन महात्मानं तेषां काम्यके भरतर्षभ

51 युधिष्ठिरस तु विप्रांस तान अनुमान्य महात्मनाः
शशास पुरुषान काले रथान यॊजयतेति ह

अध्याय 2
अध्याय 2