अध्याय 218

महाभारत संस्कृत - आरण्यकपर्व

1 [मार्क] उपविष्टं ततः सकन्दं हिरण्यकवच सरजम
हिरण्यचूड मुकुटं हिरण्याक्षं महाप्रभम

2 लॊहिताम्बर संवीतं तीक्ष्णदंष्ट्रं मनॊरमम
सर्वलक्षणसंपन्नं तरैलॊक्यस्यापि सुप्रियम

3 ततस तं वरदं शूरं युवानं मृष्टकुण्डलम
अभजत पद्मरूपा शरीः सवयम एव शरीरिणी

4 शरिया जुष्टः पृथु यशाः स कुमार वरस तदा
निषण्णॊ दृश्यते भूतैः पौर्णमास्यां यथा शशी

5 अपूजयन महात्मानॊ बराह्मणास तं महाबलम
इदम आहुस तदा चैव सकन्दं तत्र महर्षयः

6 हिरण्यवर्णभद्रं ते लॊकानां शंकरॊ भव
तवया षष रात्रजातेन सर्वे लॊका वशीकृताः

7 अभयं च पुनर दत्तं तवयैवैषां सुरॊत्तम
तस्माद इन्द्रॊ भवान अस्तु तरैलॊक्यस्याभयंकरः

8 [सकन्द] किम इन्द्रः सर्वलॊकानां करॊतीह तपॊधनाः
कथं देव गनांश चैव पाति नित्यं सुरेश्वरः

9 [रसयह] इन्द्रॊ दिशति भूतानां बलं तेजॊ परजाः सुखम
तुष्टः परयच्छति तथा सर्वान दायान सुरेश्वरः

10 दुर्वृत्तानां संहरति वृत्तस्थानां परयच्छति
अनुशास्ति च भूतानि कार्येषु बलसूदनः

11 असूर्ये च भवेत सूर्यस तथाचन्द्रे च चन्द्रमाः
भवत्य अग्निश च वायुश च पृथिव्य आपश च कारणैः

12 एतद इन्द्रेण कर्तव्यम इन्द्रे हि विपुलं बलम
तवं च वीर बलश्रेष्ठस तस्माद इन्द्रॊ भवस्व नः

13 [षक्र] भवस्वेन्द्रॊ महाबाहॊ सर्वेषां नः सुखावहः
अभिषिच्यस्व चैवाद्य पराप्तरूपॊ ऽसि सत्तम

14 [सकन्द] शाधि तवम एव तरैलॊक्यम अव्यग्रॊ विजये रतः
अहं ते किंकरः शक्र न ममेन्द्रत्वम ईप्सितम

15 [षक्र] बलं तवाद्भुतं वीर तवं देवानाम अरीञ जहि
अवज्ञास्यन्ति मां लॊका वीर्येण तव विस्मिताः

16 इन्द्रत्वे ऽपि सथितं वीर बलहीनं पराजितम
आवयॊश च मिथॊ भेदे परयतिष्यन्त्य अतन्द्रिताः

17 भेदिते च तवयि विभॊ लॊकॊ दवैधम उपेष्यति
दविधा भूतेषु लॊकेषु निश्चितेष्व आवयॊस तथा
विग्रहः संप्रवर्तेत भूतभेदान महाबल

18 तत्र तवं मां रणे तात यथाश्रद्धं विजेष्यसि
तस्माद इन्द्रॊ भवान अद्य भविता मा विचारय

19 [सकन्द] तवम एव राजा भद्रं ते तरैलॊक्यस्य ममैव च
करॊमि किं च ते शक्र शासनं तद बरवीहि मे

20 [षक्र] यदि सत्यम इदं वाक्यं निश्चयाद भाषितं तवया
यदि वा शासनं सकन्द कर्तुम इच्छसि मे शृणु

21 अभिषिच्यस्व देवानां सेनापत्ये महाबल
अहम इन्द्रॊ भविष्यामि तव वाक्यान महाबल

22 [सकन्द] दानवानां विनाशाय देवानाम अर्थसिद्धये
गॊब्राह्मणस्य तराणार्थं सेनापत्ये ऽभिषिञ्च माम

23 [मार्क] सॊ ऽभिषिक्तॊ मघवता सर्वैर देवगणैः सह
अतीव शुशुभे तत्र पूज्यमानॊ महर्षिभिः

24 तस्य तत काञ्चनं छत्रं धरियमाणं वयरॊचत
यथैव सुसमिद्धस्य पावकस्यात्म मण्डलम

25 विश्वकर्म कृता चास्य दिव्या माला हिरण्मयी
आबद्धा तरिपुरघ्नेन सवयम एव यशस्विना

26 आगम्य मनुजव्याघ्रसहदेव्या परंतप
अर्चयाम आस सुप्रीतॊ भगवान गॊवृषध्वजः

27 रुद्रम अग्निं दविजाः पराहू रुद्र सूनुस ततस तु सः
रुद्रेण शुक्रम उत्सृष्टं तच छवेतः पर्वतॊ ऽभवत
पावकस्येन्द्रियं शवेते कृत्तिकाभिः कृतं नगे

28 पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वे दिवौकसः
रुद्र सूनुं ततः पराहुर गुहं गुणवतां वरम

29 अनुप्रविश्य रुद्रेण वह्निं जातॊ हय अयं शिशुः
तत्र जातस ततः सकन्दॊ रुद्र सूनुस ततॊ ऽभवत

30 रुद्रस्य वह्नेः सवाहायाः षण्णां सत्रीणां च तेजसा
जातः सकन्दः सुरश्रेष्ठॊ रुद्र सूनुस ततॊ ऽभवत

31 अरजे वाससी रक्ते वसानः पावकात्मजः
भाति दीप्तवपुः शरीमान रक्ताभ्राभ्याम इवांशुमान

32 कुक्कुटश चाग्निना दत्तस तस्य केतुर अलंकृतः
रथे समुच्छ्रितॊ भाति कालाग्निर इव लॊहितः

33 विवेश कवचं चास्य शरीरं सहजं ततः
युध्यमानस्य देहस्य परादुर्भवति तत सदा

34 शक्तिर वर्म बलं तेजॊ कान्तत्वं सत्यम अक्षतिः
बरह्मण्यत्वम असंमॊहॊ भक्तानां परिरक्षणम

35 निकृन्तनं च शत्रूणां लॊकानां चाभिरक्षणम
सकन्देन सह जातानि सर्वाण्य एव जनाधिप

36 एवं देवगणैः सर्वैः सॊ ऽभिषिक्तः सवलंकृतः
बभौ परतीतः सुमनाः परिपूर्णेन्दु दर्शनः

37 इष्टैः सवाध्यायघॊषैश च देव तूर्यरवैर अपि
देवगन्धर्वगीतैश च सर्वैर अप्सरसां गणैः

38 एतैश चान्यैश च विविधैर हृष्टतुष्टैर अलंकृतैः
करीडन्न इव तदा देवैर अभिषिक्तः स पावकिः

39 अभिषिक्तं महासेनम अपश्यन्त दिवौकसः
विनिहत्य तमॊ सूर्यं यथेहाभ्युदितं तथा

40 अथैनम अभ्ययुः सर्वा देव सेनाः सहस्रशः
अस्माकं तवं पतिर इति बरुवाणाः सर्वतॊदिशम

41 ताः समासाद्य भगवान सर्वभूतगणैर वृतः
अर्चितश च सतुतश चैव सान्त्वयाम आस ता अपि

42 शतक्रतुश चाभिषिच्य सकन्दं सेनापतिं तदा
सस्मार तां देव सेनां या सा तेन विमॊक्षिता

43 अयं तस्याः पतिर नूनं विहितॊ बरह्मणा सवयम
इति चिन्त्यानयाम आस देवसेनां सवलंकृताम

44 सकन्दं चॊवाच बलभिद इयं कन्या सुरॊत्तम
अजाते तवयि निर्दिष्टा तव पत्नी सवयम्भुवा

45 तस्मात तवम अस्या विधिवत पाणिं मन्त्रपुरस्कृतम
गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसम

46 एवम उक्तः स जग्राह तस्याः पाणिं यथाविधि
बृहस्पतिर मन्त्रविधं जजाप च जुहाव च

47 एवं सकन्दस्य महिषीं देवसेनां विदुर बुधाः
षष्ठीं यां बराह्मणाः पराहुर लक्ष्मीम आशां सुखप्रदाम
सिनीवालीं कुहूं चैव सद्वृत्तिम अपराजिताम

48 यदा सकन्दः पतिर लब्धः शाश्वतॊ देवसेनया
तदा तम आश्रयल लक्ष्मीः सवयं देवी शरीरिणी

49 शरीजुष्टः पञ्चमीं सकन्दस तस्माच छरी पञ्चमी समृता
षष्ठ्यां कृतार्थॊ ऽभूद यस्मात तस्मात षष्ठी महातिथिः

अध्याय 2
अध्याय 2