अध्याय 208

महाभारत संस्कृत - आरण्यकपर्व

1 [मार्क] बरह्मणॊ यस तृतीयस तु पुत्रः कुरुकुलॊद्वह
तस्यापव सुता भार्या परजास तस्यापि मे शृणु

2 बृहज्ज्यॊतिर बृहत्कीर्तिर बृहद्ब्रह्मा बृहन्मनाः
बृहन्मन्त्रॊ बृहद्भासस तथा राजन बृहस्पतिः

3 परजासु तासु सर्वासु रूपेणाप्रतिमाभवत
देवी भानुमती नाम परथमाङ्गिरसः सुता

4 भूतानाम एव सर्वेषां यस्यां रागस तदाभवत
रागाद रागेति याम आहुर दवितीयाङ्गिरसः सुता

5 यां कपर्दि सुताम आहुर दृश्यादृश्येति देहिनः
तनुत्वात सा सिनीवाली तृतीयाङ्गिरसः सुता

6 पश्यत्य अर्चिष्मती भाभिर हविर भिश च हविष्मती
षष्ठम अङ्गिरसः कन्यां पुण्याम आहुर हविष्मतीम

7 महामखेष्व आङ्गिरषी दीप्तिमत्सु महामती
महामतीति विख्याता सप्तमी कथ्यते सुता

8 यां तु दृष्ट्वा भगवतीं जनः कुहुकुहायते
एकानंशेति याम आहुः कुहूम अङ्ग्निरसः सुताम

अध्याय 2
अध्याय 2