अध्याय 16

महाभारत संस्कृत - आरण्यकपर्व

1 [य] वासुदेव महाबाहॊ विस्तरेण महामते
सौभस्य वधम आचक्ष्व न हि तृप्यामि कथ्यतः

2 [वा] हतं शरुत्वा महाबाहॊ मया शरौतश्रवं नृपम
उपायाद भरतश्रेष्ठ शाल्वॊ दवारवतीं पुरीम

3 अरुन्धत तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन
शाल्वॊ वैहायसं चापि तत पुरं वयूह्य विष्ठितः

4 तत्रस्थॊ ऽथ महीपालॊ यॊधयाम आस तां पुरीम
अभिसारेण सर्वेण तत्र युद्धम अवर्तत

5 पुरी समन्ताद विहिता सपताका सतॊरणा
सचक्रा सहुडा चैव सयान्त्र खनका तथा

6 सॊपतल्प परतॊलीका साट्टाट्टाकल गॊपुरा
सकच गरहणी चैव सॊल्कालातावपॊथिका

7 सॊष्ट्रिका भरतश्रेष्ठ सभेरी पणवानका
समित तृणकुशा राजन सशतघ्नीक लाङ्गला

8 सभुशुण्ड्य अश्मल गुडा सायुधा सपरश्वधा
लॊहचर्मवती चापि साग्निः सहुड शृङ्गिका

9 शास्त्रदृष्टेन विधिना संयुक्ता भरतर्षभ
दरव्यैर अनेकैर विविधैर गद साम्बॊद्धवादिभिः

10 पुरुषैः कुरुशार्दूल समर्थैः परतिबाधने
अभिख्यात कुलैर वीरैर दृष्टवीर्यैश च संयुगे

11 मध्यमेन च गुल्मेन रक्षिता सारसंज्ञिता
उत्क्षिप्त गुल्मैश च तथा हयैश चैव पदातिभिः

12 आघॊषितं च नगरे न पातव्या सुरेति ह
परमादं परिरक्षद्भिर उग्रसेनॊद्धवादिभिः

13 परमत्तेष्व अभिघातं हि कुर्याच छाल्वॊ नराधिपः
इति कृत्वाप्रमत्तास ते सरे वृष्ण्यन्धकाः सथिताः

14 आनर्ताश च तथा सर्वे नटनर्तक गायनाः
बहिर विवासिताः सर्वे रक्षद्भिर वित्तसंचयान

15 संक्रमा भेदिताः सर्वे नावश च परतिषेधिताः
परिखाश चापि कौरव्य कीलैः सुनिचिताः कृताः

16 उदपानाः कुरुश्रेष्ठ तथैवाप्य अम्बरीषकाः
समन्तात कॊशमात्रं च कारिता विषमा च भूः

17 परकृत्या विषमं दुर्गं परकृत्या च सुरक्षितम
परकृत्या चायुधॊपेतं विशेषेण तदानघ

18 सुरक्षितं सुगुप्तं च सरायुध समन्वितम
तत पुरं भरतश्रेष्ठ यथेन्द्र भवनं तथा

19 न चामुद्रॊ ऽभिनिर्याति न चामुद्रः परवेश्यते
वृष्ण्यन्धकपुरे राजंस तदा सौभसमागमे

20 अनु रथ्यासु सर्वासु चत्वरेषु च कौरव
बलं बभूव राजेन्द्र परभूतगजवाजिमत

21 दत्तवेतन भक्तं च दत्तायुध परिच्छदम
कृतापदानं च तदा बलम आसीन महाभुज

22 न कुप्य वेतनी कश चिन न चातिक्रान्त वेतनी
नानुग्रहभृतः कश चिन न चादृष्ट पराक्रमः

23 एवं सुविहिता राजन दवारका भूरिदक्षिणैः
आहुकेन सुगुप्ता च राज्ञा राजीवलॊचन

अध्याय 1
अध्याय 1