अध्याय 152
1 [भीम]
पाण्डवॊ भीमसेनॊ ऽहं धर्मपुत्राद अनन्तरः
विशालां बदरीं पराप्तॊ भरातृभिः सह राक्षसाः
2 अपश्यत तत्र पञ्चाली सौगन्धिकम अनुत्तमम
अनिलॊढम इतॊ नूनं सा बहूनि परीप्सति
3 तस्या मामानवद्याङ्ग्या धर्मपत्न्याः परिये सथितम
पुष्पाहारम इह पराप्तं निबॊधत निशाचराः
4 [र-स]
आक्रीडॊ ऽयं कुबेरस्य दयितः पुरुषर्षभ
नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मिणा
5 देवर्षयस तथा यक्षा देवाश चात्र वृकॊदर
आमन्त्र्य यक्षप्रवरं पिबन्ति विहरन्ति च
गन्धर्वाप्सरसश चैव विहरन्त्य अत्र पाण्डव
6 अन्यायेनेह यः कश चिद अवमन्य धनेश्वरम
विहर्तुम इच्छेद दुर्वृत्तः स विनश्येद असंशयम
7 तम अनादृत्य पद्मानि जिहीर्षसि बलाद इतः
धर्मराजस्य चात्मानं बरवीषि भरातरं कथम
8 [भीम]
राक्षसास तं न पश्यामि धनेश्वरम इहान्तिके
दृष्ट्वापि च महाराजं नाहं याचितुम उत्सहे
9 न हि याचन्ति राजान एष धर्मः सनातनः
न चाहं हातुम इच्छामि कषात्र धर्मं कथं चन
10 इयं च नलिनी रम्या जता पर्वतनिर्झरे
नेयं भवनम आसाद्य कुबेरस्य महात्मनः
11 तुल्या हि सर्वभूतानाम इयं वैश्रवणस्य च
एवंगतेषु दरव्येषु कः कं याचितुम अर्हति
12 [वै]
इत्य उक्त्वा राक्षसान सर्वान भीमसेनॊ वयगाहत
ततः स राक्षसैर वाचा परतिषिद्धः परतापवान
मा मैवम इति सक्रॊधैर भर्त्सयद्भिः समन्ततः
13 कदर्थी कृत्यतु स तान राक्षसान भीमविक्रमः
वयगाहत महातेजास ते तं सर्वे नयवारयन
14 गृह्णीत बध्नीत निकृन्ततेमं; पचाम खादाम च भीमसेनम
करुद्धा बरुवन्तॊ ऽनुययुर दरुतं ते; शस्त्राणि चॊद्यम्य विवृत्तनेत्राः
15 ततः स गुर्वी यमदण्डकल्पां; महागदां काञ्चनपट्टनद्धाम
परगृह्य तान अभ्यपतत तरस्वी; ततॊ ऽबरवीत तिष्ठत तिष्ठतेति
16 ते तं तदा तॊमरपट्टिशाद यैर; वयाविध्य शस्त्रैः सहसाभिपेतुः
जिघांसवः करॊधवशाः सुभीमा; भीमं समन्तात परिवव्रुर उग्राः
17 वातेन कुन्त्यां बलवान स जातः; शूरस तरस्वी दविषतां निहन्ता
सत्ये च धर्मे च रतः सदैव; पराक्रमे शत्रुभिर अप्रधृष्यः
18 तेषां स मार्गान विविधान महात्मा; निहत्य शस्त्राणि च शात्रवाणाम
यथा परवीरान निजघान वीरः; परःशतान पुष्करिणी समीपे
19 ते तस्य वीर्यं च बलं च दृष्ट्वा; विद्या बलं बाहुबलं तथैव
अशक्नुवन्तः सहिताः समन्ताद; धतप्रवीराः सहसा निवृत्ताः
20 विदीर्यमाणास तत एव तूर्णम; आकाशम आस्थाय विमूढसंज्ञाः
कैलासशृङ्गाण्य अभिदुद्रुवुस ते; भीमार्दिताः करॊधवशाः परभग्नाः
21 स शक्रवद दानवदैत्य संघान; विक्रम्य जित्वा च रणे ऽरिसंघान
विगाह्य तां पुष्करिणीं जितारिः; कामाय जग्राह ततॊ ऽमबुजानि
22 ततः स पीत्वामृत कल्पम अम्भॊ; भूयॊ बभूवॊत्तम वीर्यतेजाः
उत्पाट्य जग्राह ततॊ ऽमबुजानि; सौगन्धिकान्य उत्तमगन्धवन्ति
23 ततस तु ते करॊधवशाः समेत्य; धनेश्वरं भीमबलप्रणुन्नाः
भीमस्य वीर्यं च बलं च संख्ये; यथावद आचख्युर अतीव दीनाः
24 तेषां वचस तत तु निशम्य देवः; परहस्य रक्षांशि ततॊ ऽभयुवाच
गृह्णातु भीमॊ जलजानि कामं; कृष्णा निमित्तं विदितं ममैतत
25 ततॊ ऽभयनुज्ञाय धनेश्वरं ते; जग्मुः कुरूणां परवरं विरॊषाः
भीमं च तस्यां ददृशुर नलिन्यां; यथॊपजॊषं विहरन्तम एकम