अध्याय 149

महाभारत संस्कृत - आरण्यकपर्व

1 [वै] एवम उक्तस तु भीमेन समितं कृत्वा पलवंगमः
यदि ते ऽहम अनुग्राह्यॊ दर्शयात्मानम आत्मना

2 [वै] एवम उक्तस तु भीमेन समितं कृत्वा पलवंगमः
तद रूपं दर्शयाम आस यद वै सागरलङ्घने

3 भरातुः परियम अभीप्सन वै चकार सुमहद वपुः
देहस तस्य ततॊ ऽतीव वर्धत्य आयाम विस्तरैः

4 तद रूपं कदली सन्दं छादयन्न अमितद्युतिः
गिरेश चॊच्छ्रयम आगम्य तस्थौ तत्र स वानरः

5 समुच्छ्रितमहाकायॊ दवितीय इव पर्वतः
ताम्रेक्षणस तीक्ष्णदंस्त्रॊ भृकुटी कृतलॊचनः
दीर्घलाङ्गूलम आविध्य दिशॊ वयाप्य सथितः कपिः

6 तद रूपं महद आलक्ष्य भरातुः कौरवनन्दनः
विसिस्मिये तदा भीमॊ जहृषे च पुनः पुनः

7 तम अर्कम इव तेजॊभिः सौवर्णम इव पर्वतम
परदीप्तम इव चाकाशं दृष्ट्वा भीमॊ नयमीलयत

8 आबभाषे च हनुमान भीमसेनं समयन्न इव
एतावद इह शक्तस तवं रूपं दरष्टुं ममानघ

9 वर्धे ऽहं चाप्य अतॊ भूयॊ यावन मे मनसेप्सितम
भीम शत्रुषु चात्यर्थं वर्धते मूर्तिर ओजसा

10 तद अद्भुतं महारौद्रं विन्ध्यमन्दर संनिभम
दृष्ट्वा हनूमतॊ वर्ष्म संभ्रान्तः पवनात्म जः

11 परत्युवाच ततॊ भीमः संप्रहृष्टतनूरुहः
कृताञ्जलिर अदीनात्मा हनूमन्तम अवस्थितम

12 दृष्टं परमाणं विपुलं शरीरस्यास्य ते विभॊ
संहरस्व महावीर्यस्वयम आत्मानम आत्मना

13 न हि शक्नॊमि तवां दरष्टुं दिवाकरम इवॊदितम
अप्रमेयम अनाधृष्यं मैनाकम इव पर्वतम

14 विस्मयश चैव मे वीर सुमहान मनसॊ ऽदय वै
यद रामस तवयि पार्श्वस्थे सवयं रावणम अभ्यगात

15 तवम एव शक्तस तां लङ्कां सयॊधां सहवाहनाम
सवबाहुबलम आश्रित्य विनाशयितुम ओजसा

16 न हि ते किं चिद अप्राप्यं मारुतात्मज विद्यते
तव नैकस्य पर्याप्तॊ रावणः सगणॊ युधि

17 एवम उक्तस तु भीमेन हनूमान पलवगर्षभः
परत्युवाच ततॊ वाक्यं सनिग्धगन्भीरया गिरा

18 एवम एतन महाबाहॊ यथा वदसि भारत
भीमसेन न पर्याप्तॊ ममासौ राक्षसाधमः

19 मया तु तस्मिन निहते रावणे लॊककन्तके
कीर्तिर नश्येद राघवस्य तत एतद उपेक्षितम

20 तेन वीरेण हत्वा तु सगणं राक्षसाधिपम
आनीता सवपुरं सीता लॊके कीर्तिश च सथापिता

21 तद गच्छ विपुलप्रज्ञ भरातुः परियहिते रतः
अरिष्टं कषेमम अध्वानं वायुना परिरक्षितः

22 एष पन्थाः कुरुश्रेष्ठ सौगन्धिक वनाय ते
दरक्ष्यसे धनदॊद्यानं रक्षितं यक्षराक्षसैः

23 न च ते तरसा कार्यः कुसुमावचयः सवयम
दैवतानि हि मान्यानि पुरुषेण विशेषतः

24 बलिहॊमनमस्कारैर मन्त्रैश च भरतर्षभ
दैवतानि परसादं हि भक्त्या कुर्वन्ति भारत

25 मा तात साहसं कार्षीः सवधर्मम अनुपालय
सवधर्मस्थः परं धर्मं बुध्यस्वागमयस्व च

26 विज्ञातव्यॊ विभागेन यत्र मुह्यन्त्य अबुद्धयः
धर्मॊ वै वेदितुं शक्यॊ बृहस्पतिसमैर अपि

27 अधर्मॊ यत्र धर्माख्यॊ धर्मश चाधर्मसंज्ञितः
विज्ञातव्यॊ विभागेन यत्र मुह्यन्त्य अबुद्धयः

28 आचार संभवॊ धर्मॊ धर्माद वेदाः समुत्थिताः
वेदैर यज्ञाः समुत्पन्ना यज्ञैर देवाः परतिष्ठिताः

29 वेदाचार विधानॊक्तैर यज्ञैर धार्यन्ति देवताः
बृहस्पत्युशनॊक्तैश च नयैर धार्यन्ति मानवाः

30 पन्या करवनिज्याभिः कृष्याथॊ यॊनिपॊषणैः
वार्तया धार्यते सर्वं धर्मैर एतैर दविजातिभिः

31 तरयी वार्ता दण्डनीतिस तिस्रॊ विद्या विजानताम
ताभिः सम्यक परयुक्ताभिर लॊकयात्रा विधीयते

32 सा चेद धर्मक्रिया न सयात तरयीधर्मम ऋते भुवि
दण्डनीतिम ऋते चापि निर्मर्यादम इदं भवेत

33 वार्ता धर्मे हय अवर्तन्त्यॊ विनश्येयुर इमाः परजाः
सुप्रवृत्तैर तरिभिर हय एतैर धर्मैः सूयन्ति वै परजाः

34 दविजानाम अमृतं धर्मॊ हय एकश चैवैक वर्णिकः
यज्ञाध्ययन दानानि तरयः साधारणाः समृताः

35 याजनाध्यापने चॊभे बराह्मणानां परतिग्रहः
पालनं कषत्रियाणां वै वैश्य धर्मश च पॊषणम

36 शुश्रूषा तु दविजातीनां शूद्राणां धर्म उच्यते
भैक्ष हॊमव्रतैर हीनास तथैव गुरुवासिनाम

37 कषत्रधर्मॊ ऽतर कौन्तेय तव धर्माभिरक्षणम
सवधर्मं परतिपद्यस्व विनीतॊ नियतेन्द्रियः

38 वृद्धैर संमन्त्र्य सद्भिश च बुद्धिमद्भिः शरुतान्वितैः
सुस्थितः शास्ति दन्देन वयसनी परिभूयते

39 निग्रहानुग्रहैः सम्यग यदा राजा परवर्तते
तदा भवति लॊकस्य मर्यादा सुव्यवस्थिता

40 तस्माद देशे च दुर्गे च शत्रुमित्र बलेषु च
नित्यं चारेण बॊद्धव्यं सथानं वृद्धिः कषयस तथा

41 राज्ञाम उपायाश चत्वारॊ बुद्धिमन्त्रः पराक्रमः
निग्रहानुग्रहौ चैव दाक्ष्यं तत कार्यसाधनम

42 साम्ना दानेन भेदेन दन्देनॊपेक्षणेन च
साधनीयानि कार्याणि समास वयास यॊगतः

43 मन्त्रमूला नयाः सर्वे चाराश च भरतर्षभ
सुमन्त्रितैर नयैः सिद्धिस तद्विदैः सह मन्त्रयेत

44 सत्रिया मूधेन लुब्धेन बालेन लघुना तथा
न मन्त्रयेत गुह्यानि येषु चॊन्माद लक्षणम

45 मन्त्रयेत सह विद्वद्भिः शक्तैः कर्माणि कारयेत
सनिग्धैश च नीतिविन्यासान मूर्खान सर्वत्र वर्जयेत

46 धार्मिकान धर्मकार्येषु अर्थकार्येषु पण्डितान
सत्रीषु कलीबान नियुञ्जीत करूरान करूरेषु कर्मसु

47 सवेभ्यश चैव परेभ्यश च कार्याकार्यसमुद्भवा
बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम

48 बुद्ध्या सुप्रतिपन्नेषु कुर्यात साधु परिग्रहम
निग्रहं चाप्य अशिष्टेषु निर्मर्यादेषु कारयेत

49 निग्रहे परग्रहे सम्यग यदा राजा परवर्तते
तदा भवति लॊकस्य मर्यादा सुव्यवस्थिता

50 एष ते विहितः पार्थ घॊरॊ धर्मॊ दुरन्वयः
तं सवधर्मविभागेन विनयस्थॊ ऽनुपालय

51 तपॊ धर्मदमेज्याभिर विप्रा यान्ति यथा दिवम
दानातिथ्य करिया धर्मैर यान्ति वैश्याश च सद्गतिम

52 कषत्रं याति तथा सवर्गं भुवि निग्रहपालनैः
सम्यक परनीय दण्डं हि कामद्वेषविवर्जिताः
अलुब्धा विगतक्रॊधाः सतां यान्ति सलॊकताम

अध्याय 1
अध्याय 1