अध्याय 136

महाभारत संस्कृत - आरण्यकपर्व

1 [यव] परतिभास्यन्ति वै वेदा मम तातस्य चॊभयॊः
अति चान्यान भविष्यावॊ वरा लब्धास तथा मया

2 [भरद] दर्पस ते भविता तात वराँल लब्ध्वा यथेप्सितान
स दर्पपूर्णः कृपणः कषिप्रम एव विनश्यसि

3 अत्राप्य उदाहरन्तीमा गाथा देवैर उदाहृताः
ऋषिर आसीत पुरा पुत्र बालधिर नाम वीर्यवान

4 सपुत्रशॊकाद उद्विग्नस तपस तेपे सुदुश्चरम
भवेन मम सुतॊ ऽमर्त्य इति तं लब्धवांश च सः

5 तस्य परसादॊ देवैश च कृतॊ न तव अमरैः समः
नामर्त्यॊ विद्यते मर्त्यॊ निमित्तायुर भविष्यति

6 [ब] यथेमे पर्वताः शश्वत तिष्ठन्ति सुरसत्तमाः
अक्षयास तन्निमित्तं मे सुतस्यायुर भवेद इति

7 तस्य पुत्रस तदा जज्ञे मेधावी करॊधनः सदा
स तच छरुत्वाकरॊद दर्पम ऋषींश चैवावमन्यत

8 विकुर्वाणॊ मुनीनां तु चरमाणॊ महीम इमाम
आससाद महावीर्यं धनुषाक्षं मनीषिणम

9 तस्यापचक्रे मेधावी तं शशाप स वीर्यवान
भव भस्मेति चॊक्तः स न भस्म समपद्यत

10 धनुषाक्षस तु तं दृष्ट्वा मेधाविनम अनामयम
निमित्तम अस्य महिषैर भेदयाम आस वीर्यवान

11 स निमित्ते विनस्ते तु ममार सहसा शिशुः
तं मृतं पुत्रम आदाय विललाप ततः पिता

12 लालप्यमानं तं दृष्ट्वा मुनयः पुनर आर्तवत
ऊचुर वेदॊक्तया पूर्वं गाथया तन निबॊध मे

13 न दिष्टम अर्थम अत्येतुम ईशॊ मर्त्यः कथं चन
महिषैर भेदयाम आस धनुषाक्षॊ महीधरान

14 एवं लब्ध्वा वरान बाला दर्पपूर्णास तरस्विनः
कषिप्रम एव विनश्यन्ति यथा न सयात तथा भवान

15 एष रैभ्यॊ महावीर्यः पुत्रौ चास्य तथा विभौ
तं यथा पुत्र नाभ्येषि तथा कुर्यास तव अतन्द्रितः

16 स हि करुद्धः समर्थस तवां पुत्र पीडयितुं रुषा
वैद्यश चापि तपस्वी च कॊपनश च महान ऋषिः

17 [य] एवं करिष्ये मा तापं तात कार्षीः कथं चन
यथा हि मे भवान मान्यस तथा रैभ्यः पिता मम

18 उक्त्वा स पितरं शलक्ष्णं यवक्रीर अकुतॊभयः
विप्रकुर्वन्न ऋषीन अन्यान अतुष्यत परया मुदा

अध्याय 1
अध्याय 2