अध्याय 117
1 [र]
ममापराधात तैः कषुद्रैर हतस तवं तात बालिशैः
कार्तवीर्यस्य दाया दैर वने मृग इवेषुभिः
2 धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे
मृत्युर एवंविधॊ युक्तः सर्वभूतेष्व अनागसः
3 किं नु तैर न कृतं पापं यैर भवांस तपसि सथितः
अयुध्यमानॊ वृद्धः सन हतः शरशतैः शितैः
4 किं नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च
अयुध्यमानं धर्मज्ञम एकं हत्वानपत्रपाः
5 [अक]
विलप्यैवं स करुणं बहु नानाविधं नृप
परेतकार्याणि सर्वाणि पितुश चक्रे महातपाः
6 ददाह पितरं चाग्नौ रामः परपुरंजयः
परतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत
7 संक्रुद्धॊ ऽति बलः शूरः शस्त्रम आदाय वीर्यवान
जघ्निवान कार्तवीर्यस्य सुतान एकॊ ऽनतकॊपमः
8 तेषां चानुगता ये च कषत्रियाः कषत्रियर्षभ
तांश च सर्वान अवामृद्नाद रामः परहरतां वरः
9 तरिः सप्तकृत्वः पृथिवीं कृत्वा निः कषत्रियां परभुः
समन्तपञ्चके पञ्च चकार रुधिरह्रदान
10 स तेषु तर्पयाम आस पितॄन भृगुकुलॊद्वहः
साक्षाद ददर्श चर्चीकं स च रामं नयवारयत
11 ततॊ यज्ञेन महता जामदग्न्यः परतापवान
तर्पयाम आस देवेन्द्रम ऋत्विग्भ्यश च महीं ददौ
12 वेदीं चाप्य अददद धैमीं कश्यपाय महात्मने
दशव्यामायतां कृत्वा नवॊत्सेधां विशां पते
13 तां कश्यपस्यानुमते बराह्मणाः खन्द शस तदा
वयभजंस तेन ते राजन परख्याताः खान्दवायनाः
14 स परदाय महीं तस्मै कश्यपाय महात्मने
अस्मिन महेन्द्रे शैलेन्द्रे वसत्य अमितविक्रमः
15 एवं वैरम अभूत तस्य कषत्रियैर लॊकवासिभिः
पृथिवी चापि विजिता रामेणामिततेजसा
16 [व]
ततश चतुर्दशीं रामः समयेन महामनाः
दर्शयाम आस तान विप्रान धर्मराजं च सानुजम
17 स तम आनर्च राजेन्द्रॊ भरातृभिः सहितः परभुः
दविजानां च परां पूजां चक्रे नृपतिसत्तमः
18 अर्चयित्वा जामदग्न्यं पूजितस तेन चाभिभूः
महेन्द्र उष्य तां रात्रिं परययौ दक्षिणामुखः