अध्याय 79

महाभारत संस्कृत - अनुशासनपर्व

1 [व] घृतक्षीरप्रदा गावॊ घृतयॊन्यॊ घृतॊद्भवाः
घृतनद्यॊ घृतावर्तास ता मे सन्तु सदा गृहे

2 घृतं मे हृदये नित्यं घृतं नाभ्यां परतिष्ठितम
घृतं सर्वृषु गात्रेषु घृतं मे मनसि सथितम

3 गावॊ ममाग्रतॊ नित्यं गावः पृष्ठत एव च
गावॊ मे सर्वतश चैव गवां मध्ये वसाम्य अहम

4 इत्य आचम्य जपेत सायंप्रातश च पुरुषः सदा
यद अह्ना कुरुते पापं तस्मात स परिमुच्यते

5 परासादा यत्र सौवर्णा वसॊर धारा च यत्र सा
गन्धर्वाप्सरसॊ यत्र तत्र यान्ति सहस्रदाः

6 नव नीत पङ्काः कषीरॊदा दधि शैवलसंकुलाः
वहन्ति यत्र नद्यॊ वै यत्र यान्ति सहस्रदाः

7 गवां शतसहस्रं तु यः परयच्छेद यथाविधि
पराम ऋद्धिम अवाप्याथ स गॊलॊके महीयते

8 दश चॊभयतः परेत्य मातापित्रॊः पितामहान
दधाति सुकृताँल लॊकान पुनाति च कुलं नरः

9 धेन्वाः परमाणेन समप्रमाणां; धेनुं तिलानाम अपि च परदाय
पानीय दाता च यमस्य लॊके; न यातनां कां चिद उपैति तत्र

10 पवित्रम अग्र्यं जगतः परतिष्ठा; दिवौकसां मातरॊ ऽथाप्रमेयाः
अन्वालभेद दक्षिणतॊ वरजेच च; दद्याच च पात्रे परसमीक्ष्य कालम

11 धेनुं स वत्सां कपिलां भूरि शृङ्गां; कांस्यॊपदॊहां वसनॊत्तरीयाम
परदाय तां गाहति दुर विगाह्यां; याम्यां सभां वीतभयॊ मनुष्यः

12 सुरूपा बहुरूपाश च विश्वरूपाश च मातरः
गावॊ माम उपतिष्ठन्ताम इति नित्यं परकीर्तयेत

13 नातः पुण्यतरं दानं नातः पुण्यतरं फलम
नातॊ विशिष्टं लॊकेषु भूतं भवितुम अर्हति

14 तवचा लॊम्नाथ शृङ्गैश च वालैः कषीरेण मेदसा
यज्ञं वहन्ति संभूय किम अस्त्य अभ्यधिकं ततः

15 यया सर्वम इदं वयाप्तं जगत सथावरजङ्गमम
तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम

16 गुणवचन समुच्चयैक देशॊ; नृपव मयैष गवां परकीर्तितस ते
न हि परम इह दानम अस्ति गॊभ्यॊ; भवन्ति न चापि परायणं तथान्यत

17 [भ] परम इदम इति भूमिपॊ विचिन्त्य; परवरम ऋषेर वचनं ततॊ महात्मा
वयसृजत नियतात्मवान दविजेभ्यॊ; सुबहु च गॊधनम आप्तवांश च लॊकान

अध्याय 7
अध्याय 8