अध्याय 71

महाभारत संस्कृत - अनुशासनपर्व

1 [य] उक्तं वै गॊप्रदानं ते नाचिकेतम ऋषिं परति
माहात्म्यम अपि चैवॊक्तम उद्देशेन गवां परभॊ

2 नृगेण च यथा दुःखम अनुभूतं महात्मना
एकापराधाद अज्ञानात पितामह महामते

3 दवारवत्यां यथा चासौ निविशन्त्यां समुद्धृतः
मॊक्षहेतुर अभूत कृष्णस तद अप्य अवधृतं मया

4 किं तव अस्ति मम संदेहॊ गवां लॊकं परति परभॊ
तत्त्वतः शरॊतुम इच्छामि गॊदा यत्र विशन्त्य उत

5 [भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
यथापृच्छत पद्मयॊनिम एतद एव शतक्रतुः

6 [षक्र] सवर्लॊकवासिनां लक्ष्मीम अभिभूय सवया तविषा
गॊलॊकवासिनः पश्ये वरजतः संशयॊ ऽतर मे

7 कीदृशा भगवँल लॊका गवां तद बरूहि मे ऽनघ
यान आवसन्ति दातार एतद इच्छामि वेदितुम

8 कीदृशाः किं फलाः कः सवित परमस तत्र वै गुणः
कथं च पुरुषास तत्र गच्छन्ति विगतज्वराः

9 कियत कालं परदानस्य दाता च फलम अश्नुते
कथं बहुविधं दानं सयाद अल्पम अपि वा कथम

10 बह्वीनां कीदृशं दानम अल्पानां वापि कीदृशम
अदत्त्वा गॊप्रदाः सन्ति केन वा तच च शंस मे

11 कथं च बहु दाता सयाद अल्पदात्रा समः परभॊ
अल्पप्रदाता बहुदः कथं च सयाद इहेश्वर

12 कीदृशी दक्षिणा चैव गॊप्रदाने विशिष्यते
एतत तथ्येन भगवन मम शंसितुम अर्हसि

अध्याय 7
अध्याय 7