अध्याय 37

महाभारत संस्कृत - अनुशासनपर्व

1 [य] अपूर्वं वा भवेत पार्थम अथ वापि चिरॊषितम
दूराद अभ्यागतं वापि किं पात्रं सयात पितामह

2 [भ] करिया भवति केषां चिद उपांशु वरतम उत्तमम
यॊ यॊ याचेत यत किं चित सर्वं दद्याम इत्य उत

3 अपीदयन भृत्यवर्गम इत्य एवम अनुशुश्रुम
पीडयन भृत्यवर्गं हि आत्मानम अपकर्षति

4 अपूर्वं वापि यत पात्रं यच चापि सयाच चिरॊषितम
दूराद अभ्यागतं चापि तत पात्रं च विदुर बुधाः

5 [य] अपीडया च भृत्यानां धर्मस्याहिंसया तथा
पात्रं विद्याम तत्त्वेन यस्मै दत्तं न संतपेत

6 [भ] ऋत्विक पुरॊहिताचार्याः शिष्याः संबन्धिबान्धवाः
सर्वे पूज्याश च मान्याश च शरुतवृत्तॊपसंहिताः

7 अतॊ ऽनयथा वर्तमानाः सर्वे नार्हन्ति सत्क्रियाम
तस्मान नित्यं परीक्षेत पुरुषान परणिधाय वै

8 अक्रॊधः सत्यवचनम अहिंसा दम आर्जवम
अद्रॊहॊ नातिमानश च हरीस तितिक्षा तपः शमः

9 यस्मिन एतानि दृश्यन्ते न चाकार्याणि भारत
भावतॊ विनिविष्टानि तत पात्रं मानम अर्हति

10 तथा चिरॊषितं चापि संप्रत्यागतम एव च
अपूर्वं चैव पूर्वं च तत पातं मानम अर्हति

11 अप्रामाण्यं च वेदानां शास्त्राणां चाति लङ्घनम
सर्वत्र चानवस्थानम एतन नाशनम आत्मनः

12 भवेत पण्डितमानी यॊ बराह्मणॊ वेद निन्दकः
आन्वीक्षिकीं तर्क विद्याम अनुरक्तॊ निरर्थिकाम

13 हेतुवादान बरुवन सत्सु विजेताहेतु वादिकः
आक्रॊष्टा चाति वक्ता च बराह्मणानां सदैव हि

14 सर्वाभिशङ्की मूढश च बालः कटुक वाग अपि
बॊद्धव्यस तादृशस तात नरश्वानं हि तं विदुः

15 यथा शवा भषितुं चैव हन्तुं चैवावसृज्यते
एवं संभाषणार्थाय सर्वशास्त्रवधाय च
अल्पश्रुताः कु तर्काश च दृष्टाः सपृष्टाः कु पण्डिताः

16 शरुतिस्मृतीतिहासादि पुराणारण्य वेदिनः
अनुरुन्ध्याद बहुज्ञांश च सारज्ञांश चैव पण्डितान

17 लॊकयात्रा च दरष्टव्या धर्मश चात्महितानि च
एवं नरॊ वर्तमानः शाश्वतीर एधते समाः

18 ऋणम उन्मुच्य देवानाम ऋषीणां च तथैव च
पितॄणाम अथ विप्राणाम अतिथीनां च पञ्चमम

19 पर्यायेण विशुद्धेन सुनिर्णिक्तेन कर्मणा
एवं गृहस्थः कर्माणि कुर्वन धर्मान न हीयते

अध्याय 3
अध्याय 3