अध्याय 152
1 [व]
तूष्णींभूते तदा भीष्मे पटे चित्रम इवार्पितम
मुहूर्तम इव च धयात्वा वयासः सत्यवती सुतः
नृपं शयानं गाङ्गेयम इदम आह वचस तदा
2 राजन परकृतिम आपन्नः कुरुराजॊ युधिष्ठिरः
सहितॊ भरातृभिः सर्वैः पार्थिवैश चानुयायिभिः
3 उपास्ते तवां नरव्याघ्र सह कृष्णेन धीमता
तम इमं पुरयानाय तवम अनुज्ञातुम अर्हसि
4 एवम उक्तॊ भगवता वयासेन पृथिवीपतिः
युधिष्ठिरं सहामात्यम अनुजज्ञे नदी सुतः
5 उवाच चैनं मधुरं ततः शांतनवॊ नृपः
परविशस्व पुरं राजन वयेतु ते मानसॊ जवरः
6 यजस्व विविधैर यज्ञैर बह्व अन्नैः सवाप्तदक्षिणैः
ययातिर इव राजेन्द्र शरद्दा दमपुरःसरः
7 कषत्रधर्मरतः पार्थ पितॄन देवांश च तर्पय
शरेयसा यॊक्ष्यसे चैव वयेतु ते मानसॊ जवरः
8 रञ्जयस्व परजाः सर्वाः परकृतीः परिसान्त्वय
सुहृदः फलसत्कारैर अभ्यर्चय यथार्हतः
9 अनु तवां तात जीवन्तु मित्राणि सुहृदस तथा
चैत्यस्थाने सथितं वृक्षं फलवन्तम इव दविजाः
10 आगन्तव्यं च भवता समये मम पार्थिव
विनिवृत्ते दिनकरे परवृत्ते चॊत्तरायणे
11 तथेत्य उक्त्वा तु कौन्तेयः सॊ ऽभिवाद्य पितामहम
परययौ सपरीवारॊ नगरं नागसाह्वयम
12 धृतराष्ट्रं पुरस्कृत्य गान्धारीं च पतिव्रताम
सह तैर ऋषिभिः सर्वैर भरातृभिः केशवेन च
13 पौरजानपदैश चैव मन्त्रिवृद्धैश च पार्थिवः
परविवेश कुरुश्रेष्ठ पुरं वारणसाह्वयम