अध्याय 143

महाभारत संस्कृत - अनुशासनपर्व

1 [य] बराह्मणान अर्चसे राजन सततं संशितव्रतान
कं तु कर्मॊदयं दृष्ट्वा तान अर्चसि नराधिप

2 कां वा बराह्मण पूजायां वयुष्टिं दृष्ट्वा महाव्रत
तान अर्चसि महाबाहॊ सर्वम एतद वदस्व मे

3 [भ] एष ते केशचः सर्वम आख्यास्यति महामतिः
वयुष्टं बराह्मण पूजायां दृष्टव्युष्टिर महाव्रताः

4 बलं शरॊत्रे वान मनश चक्षुषी च; जञानं तथा न विशुद्धं ममाद्य
देहन्यासॊ नातिचिरान मतॊ मे; न चातितूर्णं सविताद्य याति

5 उक्ता धर्मा ये पुराणे महान्तॊ; बराह्मणानां कषत्रियाणां विशां च
पौराणं ये दण्ड्दम उपासते च; शेषं कृष्णाद उपशिक्षस्व पार्थ

6 अहं हय एन वेद्मि तत्त्वेन कृष्णं; यॊ ऽयं हि यच चास्य बलं पुराणम
अमेयात्मा केशवः कौरवेन्द्र; सॊ ऽयं धर्मं वक्ष्यति संशयेषु

7 कृष्णः पृथ्वीम असृजत खं दिवं च; वराहॊ ऽयं भीमबलः पुराणः
अस्य चाधॊ ऽथान्तरिक्षं दिवं च; दिशश चतस्रः परदिशश चतस्रः
सृष्टिस तथैवेयम अनुप्रसूता; स निर्ममे विश्वम इदं पुराणम

8 अस्य नाभ्यां पुष्करं संप्रसूतं; यत्रॊत्पन्नः सवयम एवामितौजाः
येनाच्छिन्नं तत तमः पार्थ घॊरं; यत तत तिष्ठत्य अर्णवं तर्जयानम

9 कृते यॊगे धर्म आसीत समग्रस; तरेताकाले जञानम अनुप्रपन्नः
बलं तव आसीद दवापरे पार्थ कृष्णः; कलाव अधर्मः कषितिम आजगाम

10 स पूर्वदेवॊ निजघान दैत्यान; स पूर्वदेवश च बभूव सम्राट
स भूतानां भावनॊ भूतभव्यः; स विश्वस्यास्य जगतश चापि गॊप्ता

11 यदा धर्मॊ गलायति वै सुराणां; तदा कृष्णॊ जायते मानुषेषु
धर्मे सथित्वा स तु वै भावितात्मा; परांश च लॊकान अपरांश च याति

12 तयाज्यांस तयक्त्वाथासुराणां वधाय; कार्याकार्ये कारणं चैव पार्थ
कृतं करिष्यत करियते च देवॊ; मुहुः सॊमं विद्धि च शक्रम एतम

13 स विश्वकर्मा स च विश्वरूपः; स विश्वभृद विश्वकृग विश्वजिच च
स शूलभृच छॊणित भृत करालस; तं कर्म भिर विदितं वै सतुवन्ति

14 तं गन्धर्वाप्सरसश च नित्यम; उपतिष्ठन्ते विबुधानां शतानि
तं राक्षसाश च परिसंवहन्ते; रायः पॊषः स विजिगीषुर एकः

15 तम अध्वरे शंसितारः सतुवन्ति; रथंतरे सामगाश च सतुवन्ति
तं बराह्मणा बरह्म मन्त्रैः सतुवन्ति; तस्मै हविर अध्वर्यवः कल्पयन्ति

16 स पौराणीं बरह्म गुहां परविष्टॊ; मही सत्रं भारताग्रे ददर्श
स चैव गाम उद्दधाराग्र्य कर्मा; विक्षॊभ्य दैत्यान उरगान दानवांश च

17 तस्य भक्षान विविधान वेदयन्ति; तम एवाजौ वाहनं वेदयन्ति
तस्यान्तरिक्षं पृथिवी दिवं च; सर्वं वशे तिष्ठति शाश्वतस्य

18 स कुम्भरेताः ससृजे पुराणं; यत्रॊत्पन्नम ऋषिम आहुर वसिष्ठम
स मातरिश्वा विभुर अश्ववाजी; स रश्मिमान सविता चादि देवः

19 तेनासुरा विजिताः सर्व एव; तस्य विक्रान्तैर विजितानीह तरीणि
स देवानां मानुषाणां पितॄणां; तम एवाहुर यज्ञविदां वितानम

20 स एव कालं विभजन्न उदेति; तस्यॊत्तरं दक्षिणं चायने दवे
तस्य एवॊर्ध्वं तिर्यग अधश चरन्ति; गभस्तयॊ मेदिनीं तापयन्तः

21 तं बराह्मणा वेद विदॊ जुषन्ति; तस्यादित्यॊ भाम उपयुज्य भाति
स मासि मास्य अध्वर कृद विधत्ते; तम अध्वरे वेद विदः पठन्ति

22 स एकयुक चक्रम इदं तरिनाभि; सप्ताश्वयुक्तं वहते वै तरिधामा
महातेजाः सर्वगः सर्वसिंहः; कृष्णॊ लॊकान धारयते तथैकः
अश्नन्न अनश्नंश च तथैव धीरः; कृष्णं सदा पार्थ कर्तारम एहि

23 स एकदा कक्षगतॊ महात्मा; तृप्तॊ विभुः खाण्डवे धूमकेतुः
स राक्षसान उरगांश चावजित्य; सर्वत्र गः सर्वम अग्नौ जुहॊति

24 स एवाश्वः शवेतम अश्वं परयच्छत; स एवाश्वान अथ सर्वांश चकार
तरिवन्धुरस तस्य रथस तरिचक्रस; तरिवृच छिराश चतुरस्रश च तस्य

25 स विहायॊ वयदधात पञ्च नाभिः; स निर्ममे गां दिवम अन्तरिक्षम
एवं रम्यान असृजत पर्वतांश च; हृषीकेशॊ ऽमितदीप्ताग्नितेजाः

26 स लङ्घयन वै सरितॊ जिघांसन; स तं वज्रं परहरन्तं निरास
स महेन्द्रः सतूयते वै महाध्वरे; विप्रैर एकॊ ऋक सहस्रैः पुराणैः

27 दुर्वासा वै तेन नान्येन शक्यॊ; गृहे राजन वासयितुं महौजाः
तम एवाहुर ऋषिम एकं पुराणं; स विश्वकृद विदधात्य आत्मभावान

28 वेदांश च यॊ वेदयते ऽधिदेवॊ; विधींश च यश चाश्रयते पुराणान
कामे वेदे लौकिके यत फलं च; विष्वक्सेनेन सर्वम एतत परतीहि

29 जयॊतींषि शुक्लानि च सर्वलॊके; तरयॊ लॊका लॊकपात्रास तरयश च
तरयॊ ऽगनयॊ वयाहृतयश च तिस्रः; सर्वे देवा देवकीपुत्र एव

30 संवत्सरः स ऋतुः सॊ ऽरधमासः; सॊ ऽहॊरात्रः सकला वै स काष्ठाः
मात्रा मुहूर्ताश च लवाः कषणाश च; विष्वक्सेने सर्वम एतत परतीहि

31 चन्द्रादित्यौ गरहनक्षत्रताराः; सर्वाणि दर्शान्य अथ पौर्णमास्यः
नक्षत्रयॊगा ऋतवश च पार्थ; विष्वक्सेनात सर्वम एतत परसूतम

32 रुद्रादित्या वसवॊ ऽथाश्विनौ च; साध्या विश्वे मरुतां षड गणाश च
परजापतिर देव मातादितिश च; सर्वे कृष्णाद ऋषयश चैव सप्त

33 वायुर भूत्वा विक्षिपते च विश्वम; अग्निर भूत्वा दहते विश्वरूपः
आपॊ भूत्वा मज्जयते च सर्वं; बरह्मा भूत्वा सृजते विश्वसंघान

34 वेद्यं च यद वेदयते च वेदान; विधिश च यश चाश्रयते विधेयान
धर्मे च वेदे व बले च सर्वं; चराचरं केशवं तवं परतीहि

35 जयॊतिर भूतः परमॊ ऽसौ पुरस्तात; परकाशयन परभया विश्वरूपः
अपः सृष्ट्वा हय आत्मभूर आत्मयॊनिः; पुराकरॊत सर्वम एवाथ विश्वम

36 ऋतून उत्पातान विविधान्य अद्भुतानि; मेघान विद्युत सर्वम ऐरावतं च
सर्वं कृष्णात सथावरं जङ्गमं च; विश्वाख्याताद विष्णुम एनं परतीहि

37 विश्वावासं निर्गुणं वासुदेवं; संकर्षणं जीवभूतं वदन्ति
ततः परद्युम्नम अनिरुद्धं चतुर्थम; आज्ञापयत्य आत्मयॊनिर महात्मा

38 स पञ्चधा पञ्चजनॊपपन्नं; संचॊदयन विश्वम इदं सिसृक्षुः
ततश चकारावनि मारुतौ च; खं जयॊतिर आपश च तथैव पार्थ

39 स सथावरं जङ्गमं चैवम एतच; चतुर्विधं लॊकम इमं च कृत्वा
ततॊ भूमिं वयदधात पञ्च बीजां; दयौः पृथिव्यां धास्यति भूरि वारि
तेन विश्वं कृतम एतद धि राजन; स जीवयत्य आत्मनैवात्म यॊनिः

40 ततॊ देवान असुरान मानुषांश च; लॊकान ऋषींश चाथ पितॄन परजाश च
समासेन विविधान पराणिलॊकान; सर्वान सदा भूतपतिः सिसृक्षुः

41 शुभाशुभं सथावरं जङ्गमं च; विष्वक्सेनात सर्वम एतत परतीहि
यद वर्तते यच च भविष्यतीह; सर्वम एतत केशवं तवं परतीहि

42 मृत्युश चैव पराणिनाम अन्तकाले; साक्षात कृष्णः शाश्वतॊ धर्मवाहः
भूतं च यच चेह न विद्म किं चिद; विष्वक्सेनात सर्वम एतत परतीहि

43 यत परशस्तं च लॊकेषु पुण्यं यच च शुभाशुभम
तत सर्वं केशवॊ ऽचिन्त्यॊ विपरीतम अतॊ भवेत

44 एतादृशः केशवॊ ऽयं सवयं भूर; नारायणः परमश चाव्ययश च
मध्यं चास्य जगतस तस्थुषश च; सर्वेषां भूतानां परभवश चाप्ययश च

अध्याय 1
अध्याय 1