अध्याय 124

महाभारत संस्कृत - अनुशासनपर्व

1 [य] सत सत्रीणां समुदाचारं सव धर्मभृतां वर
शरॊतुम इच्छाम्य अहं तवत्तस तं मे बरूहि पितामह

2 [भ] सर्वज्ञां सर्वधर्मज्ञां देवलॊके मनस्विनीम
कैकेयी सुमना नाम शाण्डिलीं पर्यपृच्छत

3 केन वृत्तेन कल्याणि समाचारेण केन वा
विधूय सर्वपापानि देवलॊकं तवम आगता

4 हुताशनशिखेव तवं जवलमाना सवतेजसा
सुता ताराधिपस्येव परभया दिवम आगता

5 अरजांसि च वस्त्राणि धारयन्ती गतक्लमा
विमानस्था शुभे भासि सहस्रगुणम ओजसा

6 न तवम अल्पेन तपसा दानेन नियमेन वा
इमं लॊकम अनुप्राप्ता तस्मात तत्त्वं वदस्व मे

7 इति पृष्टा सुमनया मधुरं चारुहासिनी
शाण्डिली निभृतं वाक्यं सुमनाम इदम अब्रवीत

8 नाहं काषायवसना नापि वल्कलधारिणी
न च मुण्डा न जटिला भूत्वा देवत्वम आगता

9 अहितानि च वाक्यानि सर्वाणि परुषाणि च
अप्रमत्ता च भर्तारं कदा चिन नाहम अब्रुवम

10 देवतानां पितॄणां च बराह्मणानां च पूजने
अप्रमत्ता सदा युक्ता शवश्रू शवशुर वर्तिनी

11 पैशुन्ये न परवर्तामि न ममैतन मनॊगतम
अद्वारे न च तिष्ठामि चिरं न कथयामि च

12 असद वा हसितं किं चिद अहितं वापि कर्मणा
रहस्यम अरहस्यं वा न परवर्तामि सर्वथा

13 कार्यार्थे निर्गतं चापि भर्तारं गृहम आगतम
आसनेनॊपसंयॊज्य पूजयामि समाहिता

14 यद यच च नाभिजानाति यद भॊज्यं नाभिनन्दति
भक्ष्यं वाप्य अथ वा लेह्यं तत सर्वं वर्जयाम अहम

15 कुटुम्बार्थे समानीतं यत किं चित कार्यम एव तु
परातर उत्थाय तत सर्वं कारयामि करॊमि च

16 परवासं यदि मे भर्ता याति कार्येण केन चित
मङ्गलैर बहुभिर युक्ता भवामि नियता सदा

17 अञ्जनं रॊचनां चैव सनानं माल्यानुलेपनम
परसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि

18 नॊत्थापयामि भर्तारं सुखसुप्तम अहं सदा
आतुरेष्व अपि कार्येषु तेन तुष्यति मे मनः

19 नायासयामि भर्तारं कुटुम्बार्थे च सर्वदा
गुप्तगुह्या सदा चास्मि सुसंमृष्टनिवेशना

20 इमं धर्मपथं नारी पालयन्ती समाहिता
अरुन्धतीव नारीणां सवर्गलॊके महीयते

21 [भ] एतद आख्याय सा देवी सुमनायै तपस्विनी
पतिधर्मं महाभागा जगामादर्शनं तदा

22 यश चेदं पाण्डवाख्यानं पठेत पर्वणि पर्वणि
स देवलॊकं संप्राप्य नन्दने सुसुखं वसेत

अध्याय 1
अध्याय 1