अध्याय 110

महाभारत संस्कृत - अनुशासनपर्व

1 [य] पितामहेन विधिवद यज्ञा परॊक्ता महात्मना
गुणाश चैषां यथातत्त्वं परेत्य चेह च सर्वशः

2 न ते शक्या दरिद्रेण यज्ञाः पराप्तुं पितामह
बहूपकरणा यज्ञा नानासंभारविस्तराः

3 पार्थिवै राजपुत्रैर वा शक्याः पराप्तुं पितामह
नार्थन्यूनैर अवगुणैर एकात्मभिर असंहतैः

4 यॊ दरिद्रैर अपि विधिः शक्यः पराप्तुं सदा भवेत
तुल्यॊ यज्ञफलैर एतैस तन मे बरूहि पितामह

5 [भ] इदम अङ्गिरसा परॊक्तम उपवासफलात्मकम
विधिं यज्ञफलैस तुल्यं तन निबॊध युधिष्ठिर

6 यस तु कल्यं तथा सायं भुञ्जानॊ नान्तरा पिबेत
अहिंसा निरतॊ नित्यं जुह्वानॊ जातवेदसम

7 षड्भिर एव तु वर्षैः स सिध्यते नात्र संशयः
तप्तकाञ्चनवर्णं च विमानं लभते नरः

8 देव सत्रीणाम अधीवासे नृत्यगीतनिनादिते
पराजापत्ये वसेत पद्मं वर्षाणाम अग्निसंनिभे

9 तरीणि वर्षाणि यः पराशेत सततं तव एकभॊजनम
धर्मपत्नी रतॊ नित्यम अग्निष्टॊम फलं लभेत

10 दवितीये दिवसे यस तु पराश्नीयाद एकभॊजनम
सदा दवादश मासांस तु जुह्वानॊ जातवेदसम
यज्ञं बहु सुवर्णं वा वासव परियम आहरेत

11 सत्यवाग दानशीलश च बरह्मण्यश चानसूयकः
कषान्तॊ दान्तॊ जितक्रॊधः स गच्छति परां गतिम

12 पाण्डुराभ्रप्रतीकाशे विमाने हंसलक्षणे
दवे समाप्ते ततः पद्मे सॊ ऽपसरॊभिर वसेत सह

13 तृतीये दिवसे यस तु पराश्नीयाद एकभॊजनम
सदा दवादश मासांस तु जुह्वानॊ जातवेदसम

14 अतिरात्रस्य यज्ञस्य फलं पराप्नॊत्य अनुत्तमम
मयूरहंससंयुक्तं विमानं लभते नरः

15 सप्तर्षीणां सदा लॊके सॊ ऽपसरॊभिर वसेत सह
निवर्तनं च तत्रास्य तरीणि पद्मानि वै विदुः

16 दिवसे यश चतुर्हे तु पराश्नीयाद एकभॊजनम
सदा दवादश मासान वै जुह्वानॊ जातवेदसम

17 वाजपेयस्य यज्ञस्य फलं पराप्नॊत्य अनुत्तमम
इन्द्र कन्याभिरूढं च विमानं लभते नरः

18 सगरस्य च पर्यन्ते वासवं लॊकम आवसेत
देवराजस्य च करीडां नित्यकालम अवेक्षते

19 दिवसे पञ्चमे यस तु पराश्नीयाद एकभॊजनम
सदा दवादश मासांस तु जुह्वानॊ जातवेदसम

20 अलुब्धः सत्यवादी च बरह्मण्यश चाविहिंसकः
अनसूयुर अपापस्थॊ दवादशाह फलं लभेत

21 जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम
सूर्यमाला समाभासम आरॊहेत पाण्डुरं गृहम

22 आवर्तनानि चत्वारि तथा पद्मानि दवादश
शराग्निपरिमाणं च तत्रासौ वसते सुखम

23 दिवसे यस तु षष्ठे वै मुनिः पराशेत भॊजनम
सदा दवादश मासान वै जुह्वानॊ जातवेदसम

24 सदा तरिषवण सनायी बरह्म चार्य अनसूयकः
गवामयस्य यज्ञस्य फलं पराप्नॊत्य अनुत्तमम

25 अग्निज्वाला समाभासं हंसबर्हिण सेवितम
शातकुम्भमयं युक्तं साधयेद यानम उत्तमम

26 तथैवाप्सरसाम अङ्के परसुप्तः परतिबुध्यते
नूपुराणां निनादेन मेखलानां च निस्वनैः

27 कॊटीसहस्रं वर्षाणां तरीणि कॊटिशतानि च
पद्मान्य अष्टादश तथा पताके दवे तथैव च

28 अयुतानि च पञ्चाशद ऋक्षचर्म शतस्य च
लॊम्नां परमाणेन समं बरह्मलॊके महीयते

29 दिवसे सप्तमे यस तु पराश्नीयाद एकभॊजनम
सदा दवादश मासान वै जुह्वानॊ जातवेदसम

30 सरस्वतीं गॊपयानॊ बरह्मचर्यं समाचरन
सुमनॊवर्णकं चैव मधु मांसं च वर्जयेत

31 पुरुषॊ मरुतां लॊकम इन्द्रलॊकं च गच्छति
तत्र तत्र च सिद्धार्थॊ देवकन्याभिर उह्यते

32 फलं बहु सुवर्णस्य यज्ञस्य लभते नरः
संख्याम अतिगुणां चापि तेषु लॊकेषु मॊदते

33 यस तु संवत्सरं कषान्तॊ भुङ्क्ते ऽहन्य अष्टमे नरः
देवकार्यपरॊ नित्यं जुह्वानॊ जातवेदसम

34 पौण्डरीकस्य यज्ञस्य फलं पराप्नॊत्य अनुत्तमम
पद्मवर्णनिभं चैव विमानम अधिरॊहति

35 कृष्णाः कनकगौर्यश च नार्यः शयामास तथापराः
वयॊ रूपविलासिन्यॊ लभते नात्र संशयः

36 यस तु संवत्सरं भुङ्क्ते नवमे नवमे ऽहनि
सदा दवादश मासान वै जुह्वानॊ जातवेदसम

37 अश्वमेधस्य यज्ञस्य फलं पराप्नॊति मानवः
पुण्डरीकप्रकाशं च विमानं लभते नरः

38 दीप्तसूर्याग्नितेजॊभिर दिव्यमालाभिर एव च
नीयते रुद्र कन्याभिः सॊ ऽनतरिक्षं सनातनम

39 अष्टादशसहस्राणि वर्षाणां कल्पम एव च
कॊटीशतसहस्रं च तेषु लॊकेषु मॊदते

40 यस तु संवत्सरं भुङ्क्ते दशाहे वै गते गते
सदा दवादश मासान वै जुह्वानॊ जातवेदसम

41 बरह्म कन्या निवेशे च सर्वभूतमनॊहरे
अश्वमेध सहस्रस्य फलं पराप्नॊत्य अनुत्तमम

42 रूपवत्यश च तं कन्या रमयन्ति सदा नरम
नीलॊत्पलनिभैर वर्णै रक्तॊत्पलनिभैस तथा

43 विमानं मण्डलावर्तम आवर्त गहनावृतम
सागरॊर्मि परतीकाशं साधयेद यानम उत्तमम

44 विचित्रमणिमालाभिर नादितं शङ्खपुष्करैः
सफाटिकैर वज्रसारैश च सतम्भैः सुकृतवेदिकम
आरॊहति महद यानं हंससारसवाहनम

45 एकादशे तु दिवसे यः पराप्ते पराशते हविः
सदा दवादश मासान वै जुह्वानॊ जातवेदसम

46 परस्त्रियॊ नाभिलषेद वाचाथ मनसापि वा
अनृतं च न भाषेत मातापित्रॊः कृते ऽपि वा

47 अभिगच्छेन महादेवं विमानस्थं महाबलम
सवयम्भुवं च पश्येत विमानं समुपस्थितम

48 कुमार्यः काञ्चनाभासा रूपवत्यॊ नयन्ति तम
रुद्राणां तम अधीवासं दिवि दिव्यं मनॊहरम

49 वर्षाण्य अपरिमेयानि युगान्तम अपि चावसेत
कॊटीशतसहस्रं च दशकॊटिशतानि च

50 रुद्रं नित्यं परणमते देवदानव संमतम
स तस्मै दर्शनं पराप्तॊ दिवसे दिवसे भवेत

51 दिवसे दवादशे यस तु पराप्ते वै पराशते हविः
सदा दवादश मासान वै सर्वमेध फलं लभेत

52 आदित्यैर दवादशैस तस्य विमानं संविधीयते
मणिमुक्ता परवालैश च महार्हैर उपशॊभितम

53 हंसमाला परिक्षिप्तं नागवीथी समाकुलम
मयूरैश चक्रवाकैश च कूजद्भिर उपशॊभितम

54 अट्टैर महद्भिः संयुक्तं बरह्मलॊके परतिष्ठितम
नित्यम आवसते राजन नरनारी समावृतम
ऋषिर एवं महाभागस तव अङ्गिराः पराह धर्मवित

55 तरयॊदशे तु दिवसे यः पराप्ते पराशते हविः
सदा दवादश मासान वै देव सत्र फलं लभेत

56 रक्तपद्मॊदयं नाम विमानं साधयेन नरः
जातरूपप्रयुक्तं च रक्तसंचय भूषितम

57 देवकन्याभिर आकीर्णं दिव्याभरणभूषितम
पुण्यगन्धॊदयं दिव्यं वायव्यैर उपशॊभितम

58 तत्र शङ्कुपताकं च युगान्तं कल्पम एव च
अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत

59 गीतगन्धर्वघॊषैश च भेरी पणवनिस्वनैः
सदा परमुदितस ताभिर देवकन्याभिर ईड्यते

60 चतुर्दशे तु दिवसे यः पूर्णे पराशते हविः
सदा दवादश मासान वै महामेध फलं लभेत

61 अनिर्देश्य वयॊ रूपा देवकन्याः सवलंकृताः
मृष्टतप्ताङ्गद धरा विमानैर अनुयान्ति तम

62 कलहंसविनिर्घॊषैर नूपुराणां च निस्वनैः
काञ्चीनां च समुत्कर्षैस तत्र तत्र विबॊध्यते

63 देवकन्या निवासे च तस्मिन वसति मानवः
जाह्नवी वालुकाकीर्णे पूर्णं संवत्सरं नर

64 यस तु पक्षे गते भुङ्क्ते एकभक्तं जितेन्द्रियः
सदा दादश मासांस तु जुह्वानॊ जातवेदसम
राजसूय सहस्रस्य फलं पराप्नॊत्य अनुत्तमम

65 यानम आरॊहते नित्यं हंसबर्हिण सेवितम
मणिमण्डलकैश चित्रजातरूपसमावृतम

66 दिव्याभरणशॊभाभिर वरस्त्रीभिर अलंकृतम
एकस्तम्भं चतुर्द्वारं सप्त भौमं सुमङ्गलम
वैजयन्ती सहस्रैश च शॊभितं गीतनिस्वनैः

67 दिव्यं दिव्यगुणॊपेतं विमानम अधिरॊहति
मणिमुक्ता परवालैश च भूषितं वैद्युत परभम
वसेद युगसहस्रं च खड्गकुञ्जरवाहनः

68 षॊडशे दिवसे यस तु संप्राप्ते पराशते हविः
सदा दवादश मासान वै सॊमयज्ञफलं लभेत

69 सॊमकन्या निवासेषु सॊ ऽधयावसति नित्यदा
सौम्य गन्धानुलिप्तश च कामचारगतिर भवेत

70 सुदर्शनाभिर नारीभिर मधुराभिस तथैव च
अर्च्यते वै विमानस्थः कामभॊगैश च सेव्यते

71 फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम
आवर्तनानि चत्वारि सागरे यात्य असौ नरः

72 दिवसे सप्त दशमे यः पराप्ते पराशते हविः
सदा दवादश मासान वै जुह्वानॊ जातवेदसम

73 सथानं वारुणम ऐन्द्रं च रौद्रं चैवाधिगच्छति
मारुतौशनसे चैव बरह्मलॊकं च गच्छति

74 तत्र दैवतकन्याभिर आसनेनॊपचर्यते
भूर भुवं चापि देव रषिं विश्वरूपम अवेक्षते

75 तत्र देवाधिदेवस्य कुमार्यॊ रमयन्ति तम
दवात्रिंशद रूपधारिण्यॊ मधुराः समलंकृताः

76 चन्द्रादित्याव उभौ यावद गगने चरतः परभॊ
तावच चरत्य असौ वीरः सुधामृतरसाशनः

77 अष्टादशे तु दिवसे पराश्नीयाद एकभॊजनम
सदा दवादश मासान वै सप्त लॊकान स पश्यति

78 रथैः सनन्दिघॊषैश च पृष्ठतः सॊ ऽनुगम्यते
देवकन्याधिरूढैस तु भराजमानैः सवलंकृतैः

79 वयाघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम
विमानम उत्तमं दिव्यं सुसुखी हय अधिरॊहति

80 तत्र कल्पसहस्रं स कान्ताभिः सह मॊदते
सुधा रसं च भुञ्जीत अमृतॊपमम उत्तमम

81 एकॊनविंशे दिवसे यॊ भुङ्क्ते एकभॊजनम
सदा दवादश मासान वै सप्त लॊकान स पश्यति

82 उत्तमं लभते सथानम अप्सरॊगणसेवितम
गन्धर्वैर उपगीतं च विमानं सूर्यवर्चसम

83 तत्रामर वरस्त्रीभिर मॊदते विगतज्वरः
दिव्याम्बर धरः शरीमान अयुतानां शतं समाः

84 पूर्णे ऽथ दिवसे विंशे यॊ भुङ्क्ते हय एकभॊजनम
सदा दवादश मासांस तु सत्यवादी धृतव्रतः

85 अमांसाशी बरह्म चारी सर्वभूतहिते रतः
स लॊकान विपुलान दिव्यान आदित्यानाम उपाश्नुते

86 गन्धर्वैर अप्सरॊभिश च दिव्यमाल्यानुलेपनैः
विमानैः काञ्चनैर दिव्यैः पृष्ठतश चानुगम्यते

87 एकविंशे तु दिवसे यॊ भुङ्क्ते हय एकभॊजनम
सदा दवादश मासान वै जुह्वानॊ जातवेदसम

88 लॊकम औशनसं दिव्यं शक्र लॊकं च गच्छति
अश्विनॊर मरुतां चैव सुखेष्व अभिरतः सदा

89 अनभिज्ञश च दुःखानां विमानवरम आस्थितः
सेव्यमानॊ वरस्त्रीभिः करीडत्य अमरवत परभुः

90 दवाविंशे दिवसे पराप्ते यॊ भुङ्क्ते हय एकभॊजनम
सदा दवादश मासान वै जुह्वानॊ जातवेदसम

91 धृतिमान अहिंसा निरतः सत्यवाग अनसूयकः
लॊकान वसूनाम आप्नॊति दिवाकरसमप्रभः

92 कामचारी सुधा हारॊ विमानवरम आस्थितः
रमते देवकन्याभिर दिव्याभरणभूषितः

93 तरयॊविंशे तु दिवसे पराशेद यस तव एकभॊजनम
सदा दवादश मासांस तु मिताहारॊ जितेन्द्रियः

94 वायॊर उशनसश चैव रुद्र लॊकं च गच्छति
कामचारी कामगमः पूज्यमानॊ ऽपसरॊगणैः

95 अनेकगुणपर्यन्तं विमानवरम आस्थितः
रमते देवकन्याभिर दिव्याभरणभूषितः

96 चतुर्विंशे तु दिवसे यः पराशेद एकभॊजनम
सदा दवादश मासान वै जुह्वानॊ जातवेदसम

97 आदित्यानाम अधीवासे मॊदमानॊ वसेच चिरम
दिव्यमाल्याम्बरधरॊ दिव्यगन्धानुलेपनः

98 विमाने काञ्चने दिव्ये हंसयुक्ते मनॊरमे
रमते देवकन्यानां सहस्रैर अयुतैस तथा

99 पञ्चविंशे तु दिवसे यः पराशेद एकभॊजनम
सदा दवादश मासांस तु पुष्कलं यानम आरुहेत

100 सिंहव्याघ्र परयुक्तैश च मेघस्वननिनादितैः
रथैः स नन्दिघॊषैश च पृष्ठतः सॊ ऽनुगम्यते

101 देवकन्या समारूढै राजतैर विमलैः शुभैः
विमानम उत्तमं दिव्यम आस्थाय सुमनॊहरम

102 तत्र कल्पसहस्रं वै वसते सत्री शतावृते
सुधा रसं चॊपजीवन्न अमृताव उपमम उत्तमम

103 षड्विंशे दिवसे यस तु पराश्नीयाद एकभॊजनम
सदा दवादश मासांस तु नियतॊ नियताशनः

104 जितेन्द्रियॊ वीतरागॊ जुह्वानॊ जातवेदसम
स पराप्नॊति महाभागः पूम्यमानॊ ऽपसरॊगणैः

105 सप्तानां मरुतां लॊकान वसूनां चापि शॊ ऽशनुते
विमाने सफाटिके दिव्ये सर्वरत्नैर अलंकृते

106 गन्धर्वैर अप्सरॊभिश च पूज्यमानः परमॊदते
दवे युगानां सहस्रे तु दिव्ये दिव्येन तेजसा

107 सप्तविंशे तु दिवसे यः पराशेद एकभॊजनम
सदा दवादश मासांस तु जुह्वानॊ जातवेदसम

108 फलं पराप्नॊति विपुलं देवलॊके च पूज्यते
अमृताशी वसंस तत्र स वितृप्तः परमॊदते

109 देवर्षिचरितं राजन राजर्षिभिर अधिष्ठितम
अध्यावसति दिव्यात्मा विमानवरम आस्थितः

110 सत्रीभिर मनॊऽभिरामाभी रममाणॊ मदॊत्कटः
युगकक्ल्प सहस्राणि तरीण्य आवसति वै सुखम

111 यॊ ऽषटाविंशे तु दिवसे पराश्नीयाद एकभॊजनम
सदा दवादश मासांस तु जितात्मा विजितेन्द्रियः

112 फलं देवर्षिचरितं विपुलं समुपाश्नुते
भॊगवांस तेजसा भाति सहस्रांशुर इवामलः

113 सुकुमार्यश च नार्यस तं रममाणाः सुवर्चसः
पीनस्तनॊरु जघना दिव्याभरणभूषिताः

114 रमयन्ति मनःकान्ता विमाने सूर्यसंनिभे
सर्वकामगमे दिव्ये कल्पायुत शतं समाः

115 एकॊनत्रिंशे दिवसे यः पराशेद एकभॊजनम
सदा दवादश मासान वै सत्यव्रतपरायणः

116 तस्य लॊकाः शुभा दिव्या देवराजर्षिपूजिताः
विमानं चन्द्र शुभाभं दिव्यं समधिगच्छति

117 जातरूपमयं युक्तं सर्वरत्नविभूषितम
अप्सरॊगणसंपूर्णं गन्धर्वैर अभिनादितम

118 तत्र चैनं शुभा नार्यॊ दिव्याभरणभूषिताः
मनॊऽभिरामा मधुरा रमयन्ति मदॊत्कटाः

119 भॊगवांस तेजसा युक्तॊ वैश्वानरसमप्रभः
दिव्यॊ दिव्येन वपुषा भराजमान इवामरः

120 वसूनां मरुतां चैव साध्यानाम अश्विनॊस तथा
रुद्राणां च तथा लॊकान बरह्मलॊकं च गच्छति

121 यस तु मासे गते भुङ्क्ते एकभक्तं शमात्मकः
सदा दवादश मासान वै बरह्मलॊकम अवाप्नुयात

122 सुधा रसकृताहारः शरीमान सर्वमनॊहरः
तेजसा वपुषा लक्ष्म्या भराजते रश्मिवान इव

123 दिव्यमाल्याम्बरधरॊ दिव्यगन्धानुलेपनः
सुखेष्व अभिरतॊ यॊगी दुःखानाम अविजानकः

124 सवयंप्रभाभिर नारीभिर विमानस्थॊ महीयते
रुद्र देवर्षिकन्याभिः सततं चाभिपूज्यते

125 नानाविध सुरूपाभिर नाना रागाभिर एव च
नाना मधुरभाषाभिर नाना रतिभिर एव च

126 विमाने नगराकारे सूर्यवत सूर्यसंनिभे
पृष्ठतः सॊमसंकाशे उदक चैवाभ्र संनिभे

127 दक्षिणायां तु रक्ताभे अधस्तान निल मण्डले
ऊर्ध्वं चित्राभिसंकाशे नैकॊ वसति पूजितः

128 यावद वर्षसहस्रं तु जम्बूद्वीपे परवर्षति
तावत संवत्सराः परॊक्ता बरह्मलॊकस्य धीमतः

129 विप्रुषश चैव यावन्त्यॊ निपतन्ति नभस्तलात
वर्षासु वर्षतस तावन निवसत्य अमरप्रभः

130 मासॊपवासी वर्षैस तु दशभिर सवर्गम उत्तमम
महर्षित्वम अथासाद्य स शरीरगतिर भवेत

131 मुनिर दान्तॊ जितक्रॊधॊ जितशिश्नॊदरः सदा
जुह्वन्न अग्नींश च नियतः संध्यॊपासनसेविता

132 बहुभिर नियमैर एवं मासान अश्नाति यॊ नरः
अभ्रावकाश शीलश च तस्य वासॊ निरुच्यते

133 दिवं गत्वा शरीरेण सवेन राजन यथामरः
सवर्गं पुण्यं यथाकामम उपभुङ्क्ते यथाविधि

134 एष ते भरतश्रेष्ठ यज्ञानां विधिर उत्तमः
वयाख्यातॊ हय आनुपूर्व्येण उपवासफलात्मकः

135 दरिद्रैर मनुजैः पार्थ पराप्यं यज्ञफलं यथा
उपवासम इमं कृत्वा गच्छेच च परमां गतिम
देवद्विजातिपूजायां रतॊ भरतसत्तम

136 उपवासविधिस तव एष विस्तरेण परकीर्तितः
नियतेष्व अप्रमत्तेषु शौचवत्सु महात्मसु

137 दम्भद्रॊह निवृत्तेषु कृतबुद्धिषु भारत
अचलेष्व अप्रकम्पेषु मा ते भूद अत्र संशयः

अध्याय 1
अध्याय 1