अध्याय 105

महाभारत संस्कृत - अनुशासनपर्व

1 [य] एकॊ लॊकः सुकृतिनां सर्वे तव आहॊ पितामह
उत तत्रापि नानात्वं तन मे बरूहि पितामह

2 [भ] कर्मभिः पार्थ नानात्वं लॊकानां यान्ति मानवाः
पुण्यान पुण्यकृतॊ यान्ति पापान पापकृतॊ जनाः

3 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
गौतमस्य मुनेस तात संवादं वासवस्य च

4 बराह्मणॊ गौतमः कश चिन मृदुर दान्तॊ जितेन्द्रियः
महावने हस्तिशिशुं परिद्यूनम अमातृकम

5 तं दृष्ट्वा जीवयाम आस सानुक्रॊशॊ धृतव्रतः
स तु दीर्घेण कालेन बभूवातिबलॊ महान

6 तं परभिन्नं महानागं परस्रुतं सर्वतॊ मदम
धृतराष्ट्रस्य रूपेण शक्रॊ जग्राह हस्तिनम

7 हरियमाणं तु तं दृष्ट्वा गौतमः संशितव्रतः
अभ्यभाषत राजानं धृतराष्ट्रं महातपाः

8 मा मे हार्षीर हस्तिनं पुत्रम एनं; दुःखात पुष्टं धृतराष्ट्राकृतज्ञ
मित्रं सतां सप्त पदं वदन्ति; मित्रद्रॊहॊ नैव राजन सपृशेत तवाम

9 इध्मॊदक परदातारं शून्यपालकम आश्रमे
विनीतम आचार्य कुले सुयुक्तं गुरु कर्मणि

10 शिष्टं दान्तं कृतज्ञं च परियं च सततं मम
न मे विक्रॊशतॊ राजन हर्तुम अर्हसि कुञ्जरम

11 [धृ] गवां सहस्रं भवते ददामि; दासी शतं निष्कशतानि पञ्च
अन्यच च वित्तं विविधं महर्षे; किं बराह्मणस्येह गजेन कृत्यम

12 [ग] तवाम एव गावॊ ऽभि भवन्तु राजन; दास्यः स निष्का विविधं च रत्नम
अन्यच च वित्तं विविधं नरेन्द्र; किं बराह्मणस्येह धनेन कृत्यम

13 [धृ] बराह्मणानां हस्तिभिर नास्ति कृत्यं; राजन्यानां नागकुलानि विप्र
सवं वाहनं नयतॊ नास्त्य अधर्मॊ; नागश्रेष्ठाद गौतमास्मान निवर्त

14 [ग] यत्र परेतॊ नन्दति पुण्यकर्मा; यत्र परेतः शॊचति पापकर्मा
वैवस्वतस्य सदने महात्मनस; तत्र तवाहं हस्तिनं यातयिष्ये

15 [धृ] ये निष्क्रिया नास्तिकाः शरद्दधानाः; पापात्मान इन्द्रियार्थे निविष्टाः
यमस्य ते यातनां पराप्नुवन्ति; परं गन्ता धृतराष्ट्रॊ न तत्र

16 [ग] वैवस्वती संयमनी जनानां; यत्रानृतं नॊच्यते यत्र सत्यम
यत्राबला बलिनं यातयन्ति; तत्र तवाहं हस्तिनं यातयिष्ये

17 [धृ] जयेष्ठां सवसारं पितरं मातरं च; गुरुं यथा मानयन्तश चरन्ति
तथाविधानाम एष लॊकॊ महर्षे; परं गन्ता धृतराष्ट्रॊ न तत्र

18 [ग] मन्दाकिनी वैश्रवणस्य राज्ञॊ; महाभॊगा भॊगि जनप्रवेश्या
गन्धर्वयक्षैर अप्सरॊभिश च जुष्टा; तत्र तवाहं हस्तिनं यातयिष्ये

19 [धृ] अतिथिव्रताः सुव्रता ये जना वै; परतिश्रयं ददति बराह्मणेभ्यः
शिष्टाशिनः संविभज्याश्रितांश च; मन्दाकिनीं ते ऽपि विभूषयन्ति

20 [ग] मेरॊर उग्रे यद वनं भाति रम्यं; सुपुष्पितं किंनरगीतजुष्टम
सुदर्शना यत्र जम्बूर विशाला; तत्र तवाहं हस्तिनं यातयिष्ये

21 [धृ] ये बराह्मणा मृदवः सत्यशीला; बहुश्रुताः सर्वभूताभिरामाः
ये ऽधीयन्ते सेतिहासं पुराणं; मध्व आहुत्या जुह्वति च दविजेभ्यः

22 तथाविधानाम एष लॊकॊ महर्षे; परं गन्ता धृतराष्ट्रॊ न तत्र
यद विद्यते विदितं सथानम अस्ति; तद बरूहि तवं तवरितॊ हय एष यामि

23 [ग] सुपुष्पितं किंनरराजजुष्टं; परियं वनं नन्दनं नारदस्य
गन्धर्वाणाम अप्सरसां च सद्म; तत्र तवाहं हस्तिनं यातयिष्ये

24 [धृ] ये नृत्तगीतकुशला जनाः सदा; हय अयाचमानाः सहिताश चरन्ति
तथाविधानाम एष लॊकॊ महर्षे; परं गन्ता धृतराष्ट्रॊ न तत्र

25 [ग] यत्रॊत्तराः कुरवॊ भान्ति रम्या; देवैः सार्धं मॊदमाना नरेन्द्र
यत्राग्नियौनाश च वसन्ति विप्रा; हय अयॊनयः पर्वत यॊनयश च

26 यत्र शक्रॊ वर्षति सर्वकामान; यत्र सत्रियः कामचाराश चचरन्ति
यत्र चेर्ष्या नास्ति नारी नराणां; तत्र तवाहं हस्तिनं यातयिष्ये

27 [धृ] ये सर्वभूतेषु निवृत्तकामा; अमांसादा नयस्तदण्डाश चरन्ति
न हिंषन्ति सथावरं जङ्गमं च; भूतानां ये सर्वभूतात्मभूताः

28 निराशिषॊ निर्ममॊ वीतरागा; लाभालाभे तुल्यनिन्दा परशंसाः
तथाविधानाम एष लॊकॊ महर्षे; परं गन्ता धृतराष्ट्रॊ न तत्र

29 [ग] ततः परं भान्ति लॊकाः सनातनाः; सुपुण्यगन्धा निर्मला वीतशॊकाः
सॊमस्य राज्ञः सदने महात्मनस; तत्र तवाहं हस्तिनं यातयिष्ये

30 [धृ] ये दानशीला न परतिगृह्णते सदा; न चाप्य अर्थान आददते परेभ्यः
येषाम अदेयम अर्हते नास्ति किं चित; सर्वातिथ्याः सुप्रसादा जनाश च

31 ये कषन्तारॊ नाभिजल्पन्ति चान्याञ; शक्ता भूत्वा सततं पुण्यशीलाः
तथाविधानाम एष लॊकॊ महर्षे; परं गन्ता धृतराष्ट्रॊ न तत्र

32 [ग] ततः परं भान्ति लॊकाः सनातना; विरजसॊ वितमस्का विशॊकाः
आदित्यस्य सुमहान्तः सुवृत्तास; तत्र तवाहं हस्तिनं यातयिष्ये

33 [धृ] सवाध्यायशीला गुरुशुश्रूषणे रतास; तपस्विनः सुव्रताः सत्यसंधाः
आचार्याणाम अप्रतिकूल भाषिणॊ; नित्यॊत्थिता गुरु कर्म सवचॊद्याः

34 तथाविधानाम एष लॊकॊ महर्षे; विशुद्धानां भावितवान्मतीनाम
सत्ये सथितानां वेद विदां महात्मनां; परं गन्ता धृतराष्ट्रॊ न तत्र

35 [ग] ततः परे भान्ति लॊकाः सनातनाः; सुपुण्यगन्धा विरजा विशॊकाः
वरुणस्य राज्ञः सदने महात्मनस; तत्र तवाहं हस्तिनं यातयिष्ये

36 [धृ] चातुर्मास्यैर ये यजन्ते जनाः सदा; तथेष्टीनां दशशतं पराप्नुवन्ति
ये चाग्निहॊत्रं जुह्वति शरद्दधाना; यथान्यायं तरीणि वर्षाणि विप्राः

37 सवदारिणां धर्मधुरे महात्मनां; यथॊचिते वर्त्मनि सुस्थितानाम
धर्मात्मनाम उद्वहतां गतिं तां; परं गन्ता धृतराष्ट्रॊ न तत्र

38 [ग] इन्द्रस्य लॊका विरजा विशॊका; दुरन्वयाः काङ्क्षिता मानवानाम
तस्याहं ते भवने भूरि तेजसॊ; राजन्न इमं हस्तिनं यातयिष्ये

39 शतवर्ष जीवी यश च शूरॊ मनुष्यॊ; वेद धयायी यश च यज्वाप्रमत्तः
एते सर्वे शक्र लॊकं वरजन्ति; परं गन्ता धृतराष्ट्रॊ न तत्र

40 [ग] पराजापत्याः सन्ति लॊका महान्तॊ; नाकस्य पृष्ठे पुष्लका वीतशॊकाः
मनीषिताः सर्वलॊकॊद्भवानां; तत्र तवाहं हस्तिनं यातयिष्ये

41 [धृ] ये राजानॊ राजसूयाभिषिक्ता; धर्मात्मानॊ रक्षितारः परजानाम
ये चाश्वमेधावभृथाप्लुताङ्गास; तेषां लॊका धृतराष्ट्रॊ न तत्र

42 [ग] ततः परं भान्ति लॊकाः सनातनाः; सुपुण्यगन्धा विरजा वीतशॊकाः
तस्मिन्न अहं दुर्लभे तवाप्रधृष्ये; गवां लॊके हस्तिनं यातयिष्ये

43 [धृ] यॊ गॊसहस्री शतदः समां समां; यॊ गॊशती दश दद्याच च शक्त्याः
तथा दशभ्यॊ यश च दद्याद इहैकां; पञ्चभ्यॊ वा दानशीलस तथैकम

44 ये जीर्यन्ते बरह्मचर्येण विप्रा; बराह्मीं वाचं परिरक्षन्ति चैव
मनस्विनस तीर्थयात्रा परायणास; ते तत्र मॊदन्ति गवां विमाने

45 परभासं मानसं पुण्यं पुष्कराणि महत सरः
पुण्यं च नैमिषं तीर्थं बाहुदां करतॊयिनीम

46 गवां गय शिरश चैव विपाशां सथूलवालुकाम
तूष्णीं गङ्गां दश गङ्गां महाह्रदम अथापि च

47 गौतमीं कौशिकीं पाकां महात्मानॊ धृतव्रताः
सरस्वती दृषद्वत्यौ यमुनां ये परयान्ति च

48 तत्र ते दिव्यसंस्थाना दिव्यमाल्यधराः शिवाः
परयान्ति पुण्यगन्धाढ्या धृतराष्ट्रॊ न तत्र वै

49 [ग] यत्र शीतभयं नास्ति न चॊष्ण भयम अण्व अपि
न कषुत्पिपासे न गलानिर न दुःखं न सुखं तथा

50 न दवेष्यॊ न परियः कश चिन न बन्धुर न रिपुस तथा
न जरामरणे वापि न पुण्यं न च पातकम

51 तस्मिन विरजसि सफीते परज्ञा सत्त्वव्यवस्थिते
सवयम्भुभवने पुण्ये हस्तिनं मे यतिष्यति

52 [धृ] निर्मुक्ताः सर्वसङ्गेभ्यॊ कृतात्मानॊ यतव्रताः
अध्यात्मयॊगसंस्थाने युक्ताः सवर्गगतिं गताः

53 ते बरह्मभवनं पुण्यं पराप्नुवन्तीह सात्त्विकाः
न तत्र धृतराष्ट्रस ते शक्यॊ दरष्टुं महामुने

54 [ग] रथन्तरं यत्र बृहच च गीयते; यत्र वेदी पुण्डरीकैः सतृणॊति
यत्रॊपयाति हरिभिः सॊमपीथी; तत्र तवाहं हस्तिनं यातयिष्ये

55 बुध्यामि तवां वृत्रहणं शतक्रतुं; वयतिक्रमन्तं भुवनानि विश्वा
कच चिन न वाचा वृजिनं कदा चिद; अकार्षं ते मनसॊ ऽभिषङ्गात

56 [षक्र] यस्माद इमं लॊकपथं परजानाम; अन्वागमं पदवादे गजस्य
तस्माद भवान परणतं मानुशास्तु; बरवीषि यत तत करवाणि सर्वम

57 [ग] शवेतं करेणुं मम पुत्र नागं; यं मे ऽहार्षीर दशवर्षाणि बालम
यॊ मे वने वसतॊ ऽभूद दवितीयस; तम एव मे देहि सुरेन्द्र नागम

58 [षक्र] अयं सुतस ते दविजमुख्यनागश; चाघ्रायते तवाम अभिवीक्षमाणः
पादौ च ते नासिकयॊपजिघ्रते; शरेयॊ मम धयाहि नमश च ते ऽसतु

59 [ग] शिवं सदैवेह सुरेन्द्र तुभ्यं; धयायामि पूजां च सदा परयुञ्जे
ममापि तवं शक्र शिवं ददस्व; तवया दत्तं परतिगृह्णामि नागम

60 [षक्र] येषां वेदा निहिता वै गुहायां; मनीषिणां सत्त्ववतां महात्मनाम
तेषां तवयैकेन महात्मनास्मि; बुद्धस तस्मात परीतिमांस ते ऽहम अद्य

61 हन्तैहि बराह्मण कषिप्रं सह पुत्रेण हस्तिना
पराप्नुहि तवं शुभाँल लॊकान अह्नाय च चिराय च

62 [भ] स गौतमं पुरस्कृत्य सह पुत्रेण हस्तिना
दिवम आचक्रमे वज्री सद्भिः सह दुरासदम

अध्याय 1
अध्याय 1