अध्याय 99

1 [भस]
पुनर भरत वंशस्य हेतुं संतानवृद्धये
वक्ष्यामि नियतं मातस तन मे निगदतः शृणु
2 बराह्मणॊ गुणवान कश चिद धनेनॊपनिमन्त्र्यताम
विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत परजाः
3 [व]
ततः सत्यवती भीष्मं वाचा संसज्जमानया
विहसन्तीव सव्रीडम इदं वचनम अब्रवीत
4 सत्यम एतन महाबाहॊ यथा वदसि भारत
विश्वासात ते परवक्ष्यामि संतानाय कुलस्य च
न ते शक्यम अनाख्यातुम आपद धीयं तथाविधा
5 तवम एव नः कुले धर्मस तवं सत्यं तवं परा गतिः
तस्मान निशम्य वाक्यं मे कुरुष्व यद अनन्तरम
6 धर्मयुक्तस्य धर्मात्मन पितुर आसीत तरी मम
सा कदा चिद अहं तत्र गता परथमयौवने
7 अथ धर्मभृतां शरेष्ठः परमर्षिः पराशरः
आजगाम तरीं धीमांस तरिष्यन यमुनां नदीम
8 स तार्यमाणॊ यमुनां माम उपेत्याब्रवीत तदा
सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तॊ मधुरं बहु
9 तम अहं शापभीता च पितुर भीता च भारत
वरैर असुलभैर उक्ता न परत्याख्यातुम उत्सहे
10 अभिभूय स मां बालां तेजसा वशम आनयत
तमसा लॊकम आवृत्य नौ गताम एव भारत
11 मत्स्यगन्धॊ महान आसीत पुरा मम जुगुप्सितः
तम अपास्य शुभं गन्धम इमं परादात स मे मुनिः
12 ततॊ माम आह स मुनिर गर्भम उत्सृज्य मामकम
दवीपे ऽसया एव सरितः कन्यैव तवं भविष्यसि
13 पाराशर्यॊ महायॊगी स बभूव महान ऋषिः
कन्या पुत्रॊ मम पुरा दवैपायन इति समृतः
14 यॊ वयस्य वेदांश चतुरस तपसा भगवान ऋषिः
लॊके वयासत्वम आपेदे कार्ष्ण्यात कृष्णत्वम एव च
15 सत्यवादी शम परस तपस्वी दग्धकिल्बिषः
स नियुक्तॊ मया वयक्तं तवया च अमितद्युते
भरातुः कषेत्रेषु कल्याणम अपत्यं जनयिष्यति
16 स हि माम उक्तवांस तत्र समरेः कृत्येषु माम इति
तं समरिष्ये महाबाहॊ यदि भीष्म तवम इच्छसि
17 तव हय अनुमते भीष्म नियतं स महातपाः
विचित्रवीर्यक्षेत्रेषु पुत्रान उत्पादयिष्यति
18 महर्षेः कीर्तने तस्य भीष्मः पराञ्जलिर अब्रवीत
धर्मम अर्थं च कामं च तरीन एतान यॊ ऽनुपश्यति
19 अर्थम अर्थानुबन्धं च धर्मं धर्मानुबन्धनम
कामं कामानुबन्धं च विपरीतान पृथक पृथक
यॊ विचिन्त्य धिया सम्यग वयवस्यति स बुद्धिमान
20 तद इदं धर्मयुक्तं च हितं चैव कुलस्य नः
उक्तं भवत्या यच छरेयः परमं रॊचते मम
21 ततस तस्मिन परतिज्ञाते भीष्मेण कुरुनन्दन
कृष्णद्वैपायनं काली चिन्तयाम आस वै मुनिम
22 स वेदान विब्रुवन धीमान मातुर विज्ञाय चिन्तितम
परादुर्बभूवाविदितः कषणेन कुरुनन्दन
23 तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम
परिष्वज्य च बाहुभ्यां परस्नवैर अभिषिच्य च
मुमॊच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम
24 ताम अद्भिः परिषिच्यार्तां महर्षिर अभिवाद्य च
मातरं पूर्वजः पुत्रॊ वयासॊ वचनम अब्रवीत
25 भवत्या यद अभिप्रेतं तद अहं कर्तुम आगतः
शाधि मां धर्मतत्त्वज्ञे करवाणि परियं तव
26 तस्मै पूजां ततॊ ऽकार्षीत पुरॊधाः परमर्षये
स च तां परतिजग्राह विधिवन मन्त्रपूर्वकम
27 तम आसनगतं माता पृष्ट्वा कुशलम अव्ययम
सत्यवत्य अभिवीक्ष्यैनम उवाचेदम अनन्तरम
28 मातापित्रॊः परजायन्ते पुत्राः साधारणाः कवे
तेषां पिता यथा सवामी तथा माता न संशयः
29 विधातृविहितः स तवं यथा मे परथमः सुतः
विचित्रवीर्यॊ बरह्मर्षे तथा मे ऽवरजः सुतः
30 यथैव पितृतॊ भीष्मस तथा तवम अपि मातृतः
भराता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे
31 अयं शांतनवः सत्यं पालयन सत्यविक्रमः
बुद्धिं न कुरुते ऽपत्ये तथा राज्यानुशासने
32 स तवं वयपेक्षया भरातुः संतानाय कुलस्य च
भीष्मस्य चास्य वचनान नियॊगाच च ममानघ
33 अनुक्रॊशाच च भूतानां सर्वेषां रक्षणाय च
आनृशंस्येन यद बरूयां तच छरुत्वा कर्तुम अर्हसि
34 यवीयसस तव भरातुर भार्ये सुरसुतॊपमे
रूपयौवन संपन्ने पुत्र कामे च धर्मतः
35 तयॊर उत्पादयापत्यं समर्थॊ हय असि पुत्रक
अनुरूपं कुलस्यास्य संतत्याः परसवस्य च
36 [वय]
वेत्थ धर्मं सत्यवति परं चापरम एव च
यथा च तव धर्मज्ञे धर्मे परणिहिता मतिः
37 तस्माद अहं तवन नियॊगाद धर्मम उद्दिश्य कारणम
ईप्सितं ते करिष्यामि दृष्टं हय एतत पुरातनम
38 भरातुः पुत्रान परदास्यामि मित्रा वरुणयॊः समान
वरतं चरेतां ते देव्यौ निर्दिष्टम इह यन मया
39 संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः
न हि माम अव्रतॊपेता उपेयात का चिद अङ्गना
40 [स]
यथा सद्यः परपद्येत देवी गर्भं तथा कुरु
अराजकेषु राष्ट्रेषु नास्ति वृष्टिर न देवताः
41 कथम अराजकं राष्ट्रं शक्यं धारयितुं परभॊ
तस्माद गर्भं समाधत्स्व भीष्मस तं वर्धयिष्यति
42 [वय]
यदि पुत्रः परदातव्यॊ मया कषिप्रम अकालिकम
विरूपतां मे सहताम एतद अस्याः परं वरतम
43 यदि मे सहते गन्धं रूपं वेषं तथा वपुः
अद्यैव गर्भं कौसल्या विशिष्टं परतिपद्यताम
44 [व]
समागमनम आकाङ्क्षन्न इति सॊ ऽनतर्हितॊ मुनिः
ततॊ ऽभिगम्य सा देवी सनुषां रहसि संगताम
धर्म्यम अर्थसमायुक्तम उवाच वचनं हितम
45 कौसल्ये धर्मतन्त्रं यद बरवीमि तवां निबॊध मे
भरतानां समुच्छेदॊ वयक्तं मद्भाग्यसंक्षयात
46 वयथितां मां च संप्रेक्ष्य पितृवंशं च पीडितम
भीष्मॊ बुद्धिम अदान मे ऽतर धर्मस्य च विवृद्धये
47 सा च बुद्धिस तवाधीना पुत्रि जञातं मयेति ह
नष्टं च भारतं वंशं पुनर एव समुद्धर
48 पुत्रं जनय सुश्रॊणि देवराजसमप्रभम
स हि राज्यधुरं गुर्वीम उद्वक्ष्यति कुलस्य नः
49 सा धर्मतॊ ऽनुनीयैनां कथं चिद धर्मचारिणीम
भॊजयाम आस विप्रांश च देवर्षीन अतिथींस तथा