अध्याय 75

महाभारत संस्कृत - आदिपर्व

1 [व] ततः काव्यॊ भृगुश्रेष्ठः समन्युर उपगम्य ह
वृषपर्वाणम आसीनम इत्य उवाचाविचारयन

2 नाधर्मश चरितॊ राजन सद्यः फलति गौर इव
पुत्रेषु वा नप्तृषु वा न चेद आत्मनि पश्यति
फलत्य एव धरुवं पापं गुरु भुक्तम इवॊदरे

3 यद अघातयथा विप्रं कचम आङ्गिरसं तदा
अपापशीलं धर्मज्ञं शुश्रूषं मद्गृहे रतम

4 वधाद अनर्हतस तस्य वधाच च दुहितुर मम
वृषपर्वन निबॊधेदं तयक्ष्यामि तवां सबान्धवम
सथातुं तवद विषये राजन न शक्ष्यामि तवया सह

5 अहॊ माम अभिजानासि दैत्य मिथ्या परलापिनम
यथेमम आत्मनॊ दॊषं न नियच्छस्य उपेक्षसे

6 [वृ] नाधर्मं न मृषावादं तवयि जानामि भार्गव
तवयि धर्मश च सत्यं च तत परसीदतु नॊ भवान

7 यद्य अस्मान अपहाय तवम इतॊ गच्छसि भार्गव
समुद्रं संप्रवेष्क्यामॊ नान्यद अस्ति परायणम

8 [षु] समुद्रं परविशध्वं वा दिशॊ वा दरवतासुराः
दुहितुर नाप्रियं सॊढुं शक्तॊ ऽहं दयिता हि मे

9 परसाद्यतां देव यानी जीवितं हय अत्र मे सथितम
यॊगक्षेम करस ते ऽहम इन्द्रस्येव बृहस्पतिः

10 [वृ] यत किं चिद असुरेन्द्राणां विद्यते वसु भार्गव
भुवि हस्तिगवाश्वं वा तस्य तवं मम चेश्वरः

11 [षु] यत किं चिद अस्ति दरविणं दैत्येन्द्राणां महासुर
तस्येश्वरॊ ऽसमि यदि ते देव यानी परसाद्यताम

12 [देव] यदि तवम ईश्वरस तात राज्ञॊ वित्तस्य भार्गव
नाभिजानामि तत ते ऽहं राजा तु वदतु सवयम

13 [वृ] यं कामम अभिकामासि देव यानि शुचिस्मिते
तत ते ऽहं संप्रदास्यामि यदि चेद अपि दुर्लभम

14 [देव] दासीं कन्या सहस्रेण शर्मिष्ठाम अभिकामये
अनु मां तत्र गच्छेत सा यत्र दास्यति मे पिता

15 [वृ] उत्तिष्ठ हे संग्रहीत्रि शर्मिष्ठां शीघ्रम आनय
यं च कामयते कामं देव यानी करॊतु तम

16 [व] ततॊ धात्री तत्र गत्वा शर्मिष्ठां वाक्यम अब्रवीत
उत्तिष्ठ भद्रे शर्मिष्ठे जञातीनां सुखम आवह

17 तयजति बराह्मणः शिष्यान देव यान्या परचॊदितः
सा यं कामयते कामं स कार्यॊ ऽदय तवयानघे

18 [षर] सा यं कामयते कामं करवाण्य अहम अद्य तम
मा तव एवापगमच छुक्रॊ देव यानी च मत्कृते

19 [व] ततः कन्या सहस्रेण वृता शिबिकया तदा
पितुर नियॊगात तवरिता निश्चक्राम पुरॊत्तमात

20 [षर] अहं कन्या सहस्रेण दासी ते परिचारिका
अनु तवां तत्र यास्यामि यत्र दास्यति ते पिता

21 [देव] सतुवतॊ दुहिता ते ऽहं बन्दिनः परतिगृह्णतः
सतूयमानस्य दुहिता कथं दासी भविष्यसि

22 [षर] येन केन चिद आर्तानां जञातीनां सुखम आवहेत
अतस तवाम अनुयास्यामि यत्र दास्यति ते पिता

23 [व] परतिश्रुते दासभावे दुहित्रा वृषपर्वणः
देव यानी नृपश्रेष्ठ पितरं वाक्यम अब्रवीत

24 परविशामि पुरं तात तुष्टास्मि दविजसत्तम
अमॊघं तव विज्ञानम अस्ति विद्या बलं च ते

25 एवम उक्तॊ दुहित्रा स दविजश्रेष्ठॊ महायशाः
परविवेश पुरं हृष्टः पूजितः सर्वदानवैः

अध्याय 7
अध्याय 7