अध्याय 50

महाभारत संस्कृत - आदिपर्व

1 [आ] सॊमस्य यज्ञॊ वरुणस्य यज्ञः; परजापतेर यज्ञ आसीत परयागे
तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः

2 शक्रस्य यज्ञः शतसंख्य उक्तस; तथापरस तुल्यसंख्यः शतं वै
तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः

3 यमस्य यज्ञॊ हरि मेधसश च; यथा यज्ञॊ रन्ति देवस्य राज्ञः
तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः

4 गयस्य यज्ञः शशबिन्दॊश च राज्ञॊ; यज्ञस तथा वैश्रवणस्य राज्ञः
तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः

5 नृगस्य यज्ञस तव अजमीढस्य चासीद; यथा यज्ञॊ दाशरथेश च राज्ञः
तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः

6 यज्ञः शरुतॊ नॊ दिवि देव सूनॊर; युधिष्ठिरस्याजमीढस्य राज्ञः
तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः

7 कृष्णस्य यज्ञः सत्यवत्याः सुतस्य; सवयं च कर्म परचकार यत्र
तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः

8 इमे हि ते सूर्यहुताशवर्चसः; समासते वृत्रहणः करतुं यथा
नैषां जञानं विद्यते जञातुम अद्य; दत्तं येभ्यॊ न परणश्येत कथं चित

9 ऋत्विक समॊ नास्ति लॊकेषु चैव; दवैपायनेनेति विनिश्चितं मे
एतस्य शिष्या हि कषितिं चरन्ति; सर्वर्विजः कर्मसु सवेषु दक्षाः

10 विभावसुश चित्रभानुर महात्मा; हिरण्यरेता विश्वभुक कृष्ण वर्त्मा
परदक्षिणावर्तशिखः परदीप्तॊ; हव्यं तवेदं हुतभुग वष्टि देवः

11 नेह तवदन्यॊ विद्यते जीवलॊके; समॊ नृपः पालयिता परजानाम
धृत्या च ते परीतमनाः सदाहं; तवं वा राजा धर्मराजॊ यमॊ वा

12 शक्रः साक्षाद वज्रपाणिर यथेह; तराता लॊके ऽसमिंस तवं तथेह परजानाम
मतस तवं नः पुरुषेन्द्रेह लॊके; न च तवदन्यॊ गृहपतिर अस्ति यज्ञे

13 खट्वाङ्गनाभाग दिलीप कल्पॊ; ययाति मान्धातृसमप्रभावः
आदित्यतेजः परतिमानतेजा; भीष्मॊ यथा भराजसि सुव्रतस तवम

14 वाल्मीकिवत ते निभृतं सुधैर्यं; वसिष्ठवत ते नियतश च कॊपः
परभुत्वम इन्द्रेण समं मतं मे; दयुतिश च नारायणवद विभाति

15 यमॊ यथा धर्मविनिश्चयज्ञः; कृष्णॊ यथा सर्वगुणॊपपन्नः
शरियां निवासॊ ऽसि यथा वसूनां; निधान भूतॊ ऽसि तथा करतूनाम

16 दम्भॊद्भवेनासि समॊ बलेन; रामॊ यथा शस्त्रविद अस्त्रविच च
और्व तरिताभ्याम असि तुल्यतेजा; दुष्प्रेक्षणीयॊ ऽसि भगीरथॊ वा

17 [स] एवं सतुताः सर्व एव परसन्ना; राजा सदस्या ऋत्विजॊ हव्यवाहः
तेषां दृष्ट्वा भावितानीङ्गितानि; परॊवाच राजा जनमेजयॊ ऽथ

अध्याय 6
अध्याय 3