अध्याय 215
1 [वै]
सॊ ऽबरवीद अर्जुनं चैव वासुदेवं च सात्वतम
लॊकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः
2 बराह्मणॊ बहु भॊक्तास्मि भुञ्जे ऽपरिमितं सदा
भिक्षे वार्ष्णेय पार्थौ वाम एकां तृप्तिं परयच्छताम
3 एवम उक्तौ तम अब्रूतां ततस तौ कृष्ण पाण्डवौ
केनान्नेन भवांस तृप्येत तस्यान्नस्य यतावहे
4 एवम उक्तः स भगवान अब्रवीत ताव उभौ ततः
भाषमाणौ तदा वीरौ किम अन्नं करियताम इति
5 नाहम अन्नं बुभुक्षे वै पावकं मां निबॊधतम
यदन्नम अनुरूपं मे तद युवां संप्रयच्छतम
6 इदम इन्द्रः सदा दावं खाण्डवं परिरक्षति
तं न शक्नॊम्य अहं दग्धुं रक्ष्यमाणं महात्मना
7 वसत्य अत्र सखा तस्य तक्षकः पन्नगः सदा
सगणस तत कृते दावं परिरक्षति वज्रभृत
8 तत्र भूतान्य अनेकानि रक्ष्यन्ते सम परसङ्गतः
तं दिधक्षुर न शक्नॊमि दग्धुं शक्रस्य तेजसा
9 स मां परज्वलितं दृष्ट्वा मेघाम्भॊभिः परवर्षति
ततॊ दग्धुं न शक्नॊमि दिधक्षुर दावम ईप्सितम
10 स युवाभ्यां सहायाभ्याम अस्त्रविद्भ्यां समागतः
दहेयं खाण्डवं दावम एतद अन्नं वृतं मया
11 युवां हय उदकधारास ता भूतानि च समन्ततः
उत्तमास्त्रविदॊ सम्यक सर्वतॊ वारयिष्यथः
12 एवम उक्ते परत्युवाच बीभत्सुर जातवेददम
दिधक्षुं खाण्डवं दावम अकामस्य शतक्रतॊः
13 उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च
यैर अहं शक्नुयां यॊद्धुम अपि वज्रधरान बहून
14 धनुर मे नास्ति भगवन बाहुवीर्येण संमितम
कुर्वतः समरे यत्नं वेगं यद विषहेत मे
15 शरैश च मे ऽरथॊ बहुभिर अक्षयैः कषिप्रम अस्यतः
न हि वॊढुं रथः शक्तः शरान मम यथेप्सितान
16 अश्वांश च दिव्यान इच्छेयं पाण्डुरान वातरंहसः
रथं च मेघनिर्घॊषं सूर्यप्रतिम तेजसम
17 तथा कृष्णस्य वीर्येण नायुधं विद्यते समम
येन नागान पिशामांश च निहन्यान माधवॊ रणे
18 उपायं कर्मणः सिद्धौ भगवन वक्तुम अर्हसि
निवारयेयं येनेन्द्रं वर्षमाणं महावने
19 पौरुषेण तु यत कार्यं तत कर्तारौ सवपावक
करणानि समर्थानि भगवन दातुम अर्हसि