अध्याय 210

महाभारत संस्कृत - आदिपर्व

1 [वै] सॊ ऽपरान्तेषु तीर्थानि पुण्यान्य आयतनानि च
सर्वाण्य एवानुपूर्व्येण जगामामित विक्रमः

2 समुद्रे पश्चिमे यानि तीर्थान्य आयतनानि च
तानि सर्वाणि गत्वा स परभासम उपजग्मिवान

3 परभास देशं संप्राप्तं बीभत्सुम अपराजितम
तीर्थान्य अनुचरन्तं च शुश्राव मधुसूदनः

4 ततॊ ऽभयगच्छत कौन्तेयम अज्ञातॊ नाम माधवः
ददृशाते तदान्यॊन्यं परभासे कृष्ण पाण्डवौ

5 ताव अन्यॊन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने
आस्तां परियसखायौ तौ नरनारायणाव ऋषी

6 ततॊ ऽरजुनं वासुदेवस तां चर्यां पर्यपृच्छत
किमर्थं पाण्डवेमानि तीर्थान्य अनुचरस्य उत

7 ततॊ ऽरजुनॊ यथावृत्तं सर्वम आख्यातवांस तदा
शरुत्वॊवाच च वार्षेण्य एवम एतद इति परभुः

8 तौ विहृत्य यथाकामं परभासे कृष्ण पाण्डवौ
महीधरं रैवतकं वासायैवाभिजग्मतुः

9 पूर्वम एव तु कृष्णस्य वचनात तं महीधरम
पुरुषाः समलंचक्रुर उपजह्रुश च भॊजनम

10 परतिगृह्यार्जुनः सर्वम उपभुज्य च पाण्डवः
सहैव वासुदेवेन दृष्टवान नटनर्तकान

11 अभ्यनुज्ञाप्य तान सर्वान अर्चयित्वा च पाण्डवः
सत्कृतं शयनं दिव्यम अभ्यगच्छन महाद्युतिः

12 तीर्थानां दर्शनं चैव पर्वतानां च भारत
आपगानां वनानां च कथयाम आस सात्वते

13 स कथाः कथयन्न एव निद्रया जनमेजय
कौन्तेयॊ ऽपहृतस तस्मिञ शयने सवर्गसंमिते

14 मधुरेण स गीतेन वीणा शब्देन चानघ
परबॊध्यमानॊ बुबुधे सतुतिभिर मङ्गलैस तथा

15 स कृत्वावश्य कार्याणि वार्ष्णेयेनाभिनन्दितः
रथेन काञ्चनाङ्गेन दवारकाम अभिजग्मिवान

16 अलंकृता दवारका तु बभूव जनमेजय
कुन्तीसुतस्य पूजार्थम अपि निष्कुटकेष्व अपि

17 दिदृक्षवश च कौन्तेयं दवारकावासिनॊ जनाः
नरेन्द्रमार्गम आजग्मुस तूर्णं शतसहस्रशः

18 अवलॊकेषु नारीणां सहस्राणि शतानि च
भॊजवृष्ण्यन्धकानां च समवायॊ महान अभूत

19 स तथा सत्कृतः सर्वैर भॊजवृष्ण्यन्धकात्मजैः
अभिवाद्याभिवाद्यांश च सूर्यैश च परतिनन्दितः

20 कुमारैः सर्वशॊ वीरः सत्करेणाभिवादितः
समानवयसः सर्वान आश्लिष्य स पुनः पुनः

21 कृष्णस्य भवने रम्ये रत्नभॊज्य समावृते
उवास सह कृष्णेन बहुलास तत्र शर्वरीः

अध्याय 2
अध्याय 2