🙏 जीवन में कुछ पाना है तो झुकना होगा, कुएं में उतरने वाली बाल्टी झुकती है, तब ही पानी लेकर आती है| 🙏

अध्याय 153

महाभारत संस्कृत - आदिपर्व

1 [ज] ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम
अत ऊर्ध्वं ततॊ बरह्मन किम अकुर्वत पाण्डवाः

2 [वै] तत्रैव नयवसन राजन निहत्य बकराक्षसम
अधीयानाः परं बरह्म बराह्मणस्य निवेशने

3 ततः कतिपयाहस्य बराह्मणः संशितव्रतः
परतिश्रयार्थं तद वेश्म बराह्मणस्याजगाम ह

4 स सम्यक पूजयित्वा तं विद्वान विप्रर्षभस तदा
ददौ परतिश्रयं तस्मै सदा सर्वातिथि वरती

5 ततस ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः
उपासां चक्रिरे विप्रं कथयानं कथास तदा

6 कथयाम आस देशान स तीर्थानि विविधानि च
राज्ञां च विविधाश चर्याः पुराणि विविधानि च

7 स तत्राकथयद विप्रः कथान्ते जनमेजय
पाञ्चालेष्व अद्भुताकारं याज्ञसेन्याः सवयंवरम

8 धृष्टद्युम्नस्य चॊत्पत्तिम उत्पत्तिं च शिखण्डिनः
अयॊनिजत्वं कृष्णाया दरुपदस्य महामखे

9 तद अद्भुततमं शरुत्वा लॊके तस्य महात्मनः
विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः

10 कथं दरुपदपुत्रस्य धृष्टद्युम्नस्य पावकात
वेदिमध्याच च कृष्णायाः संभवः कथम अद्भुतः

11 कथं दरॊणान महेष्वासात सर्वाण्य अस्त्राण्य अशिक्षत
कथं परियसखायौ तौ भिन्नौ कस्य कृतेन च

12 एवं तैश चॊदितॊ राजन स विप्रः पुरुषर्षभैः
कथयाम आस तत सर्वं दरौपदी संभवं तदा

NO COMMENTS

LEAVE A COMMENT

🙏 ♻ प्रयास करें कि जब हम आये थे उसकी तुलना में पृथ्वी को एक बेहतर स्थान के रूप में छोड़ कर जाएं। सागर में हर एक बूँद मायने रखती है। ♻ 🙏