अध्याय 106

महाभारत संस्कृत - आदिपर्व

1 [वै] धृतराष्ट्राभ्यनुज्ञातः सवबाहुविजितं धनम
भीष्माय सत्यवत्यै च मात्रे चॊपजहार सः

2 विदुराय च वै पाण्डुः परेषयाम आस तद धनम
सुहृदश चापि धर्मात्मा धनेन समतर्पयत

3 ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम
शुभैः पाण्डुजितै रत्नैस तॊषयाम आस भारत

4 ननन्द माता कौसल्या तम अप्रतिमतेजसम
जयन्तम इव पौलॊमी परिष्वज्य नरर्षभम

5 तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः
अश्वमेध शतैर ईजे धृतराष्ट्रॊ महामखैः

6 संप्रयुक्तश च कुन्त्या च माद्र्या च भरतर्षभ
जिततन्द्रीस तदा पाण्डुर बभूव वनगॊचरः

7 हित्वा परासादनिलयं शुभानि शयनानि च
अरण्यनित्यः सततं बभूव मृगया परः

8 स चरन दक्षिणं पार्श्वं रम्यं हिमवतॊ गिरेः
उवास गिरिपृष्ठेषु महाशालवनेषु च

9 रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन
करेण्वॊर इव मध्यस्थः शरीमान पौरंदरॊ गजः

10 भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम
विचित्रकवचं वीरं परमास्त्र विदं नृपम
देवॊ ऽयम इत्य अमन्यन्त चरन्तं वनवासिनः

11 तस्य कामांश च भॊगांश च नरा नित्यम अतन्द्रिताः
उपजह्रुर वनान्तेषु धृतराष्ट्रेण चॊदिताः

12 अथ पारशवीं कन्यां देवलस्य महीपतेः
रूपयौवन संपन्नां स शुश्रावापगा सुतः

13 ततस तु वरयित्वा ताम आनाय्य पुरुषर्षभः
विवाहं कारयाम आस विदुरस्य महामतेः

14 तस्यां चॊत्पादयाम आस विदुरः कुरुनन्दनः
पुत्रान विनयसंपन्नान आत्मनः सदृशान गुणैः

अध्याय 1
अध्याय 1