अध्याय 13

महाभारत संस्कृत - अनुशासनपर्व

1 [य] किं कर्तव्यं मनुष्येण लॊकयात्रा हितार्थिना
कथं वै लॊकयात्रां तु किं शीलश च समाचरेत

2 [भ] कायेन तरिविधं कर्म वाचा चापि चतुर्विधम
मनसा तरिविधं चैव दश कर्म पथांस तयजेत

3 पराणातिपातं सतैन्यं च परदानम अथापि च
तरीणि पापानि कायेन सर्वतः परिवर्जयेत

4 असत परलापं पारुष्यं पैशुन्यम अनृतं तथा
चत्वारि वाचा राजेन्द्र न जल्पेन नानुचिन्तयेत

5 अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम
कर्मणां फलम अस्तीति तरिविधं मनसा चरेत

6 तस्माद वाक्कायमनसा नाचरेद अशुभं नरः
शुभाशुभान्य आचरन हि तस्य तस्याश्नुते फलम

अध्याय 1
अध्याय 1