अध्याय 134
1 [भ]
अत्र गाथा बरह्म गीताः कीर्तयन्ति पुराविदः
येन मार्गेण राजानः कॊशं संजनयन्ति च
2 न धनं यज्ञशीलानां हार्यं देव सवम एव तत
दस्यूनां निष्क्रियाणां च कषत्रियॊ हर्तुम अर्हति
3 इमाः परजाः कषत्रियाणां रक्ष्याश चाद्याश च भारत
धनं हि कषत्रियस्येह दवितीयस्य न विद्यते
4 तद अस्य सयाद बलार्थं वा धनं यज्ञार्थम एव वा
अभॊग्या हय ओषधीश छित्त्वा भॊग्या एव पचन्त्य उत
5 यॊ वै न देवान न पितॄन न मर्त्यान हविषार्चति
आनन्तिकां तां धनिताम आहुर वेद विदॊ जनाः
6 हरेत तद दरविणं राजन धार्मिकः पृथिवीपतिः
न हि तत परीणयेल लॊकान न कॊशं तद विधं नृपः
7 असाधुभ्यॊ निरादाय साधुभ्यॊ यः परयच्छति
आत्मानं संक्रमं कृत्वा मन्ये धर्मविद एव सः
8 औद्भिज्जा जन्तवः के चिद युक्तवाचॊ यथातथा
अनिष्टतः संभवन्ति तथा यज्ञः परतायते
9 यथैव दंश मशकं यथा चाण्ड पिपीलिकम
सैव वृत्तिर अयज्ञेषु तथा धर्मॊ विधीयते
10 यथा हय अकस्माद भवति भूमौ पांसुतृणॊलपम
तथैवेह भवेद धर्मः सूक्ष्मः सूक्ष्मतरॊ ऽपि च