अध्याय 127
1 [य]
नामृतस्येव पर्याप्तिर ममास्ति बरुवति तवयि
तस्मात कथय भूयस तवं धर्मम एव पितामह
2 [भ]
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
गौतमस्य च संवादं यमस्य च महात्मनः
3 पारियात्र गिरिं पराप्य गौतमस्याश्रमॊ महान
उवास गौतमॊ यत्र कालं तद अपि मे शृणु
4 षष्टिं वर्षसहस्राणि सॊ ऽतप्यद गौतमस तपः
तम उग्रतपसं युक्तं तपसा भावितं मुनिम
5 उपयातॊ नरव्याघ्र लॊकपालॊ यमस तदा
तम अपश्यत सुतपसम ऋषिं वै गौतमं मुनिम
6 स तं विदित्वा बरह्मर्षिर यमम आगतम ओजसा
पराञ्जलिः परयतॊ भूत्वा उपसृप्तस तपॊधनः
7 तं धर्मराजॊ दृष्ट्वैव नमस्कृत्य नरर्षभम
नयमन्त्रयत धर्मेण करियतां किम इति बरुवन
8 [ग]
माता पितृभ्याम आनृण्यं किं कृत्वा समवाप्नुयात
कथं च लॊकान अश्नाति पुरुषॊ दुर्लभाञ शुभान
9 [य]
तपः शौचवता नित्यं सत्यधर्मरतेन च
मातापित्रॊर अहर अहः पूजनं कार्यम अञ्जसा
10 अश्वमेधैश च यष्टव्यं बहुभिः सवाप्तदक्षिणैः
तेन लॊकान उपाश्नाति पुरुषॊ ऽदभुतदर्शनान