अध्याय 100

महाभारत संस्कृत - शांतिपर्व

1 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
परतर्दनॊ मैथिलश च संग्रामं यत्र चक्रतुः

2 यज्ञॊपवीती संग्रामे जनकॊ मैथिलॊ यथा
यॊधान उद्धर्षयाम आस तन निबॊध युधिष्ठिर

3 जनकॊ मैथिलॊ राजा महात्मा सर्वतत्त्ववित
यॊधान सवान दर्शयाम आस सवर्गं नरकम एव च

4 अभीतानाम इमे लॊका भास्वन्तॊ हन्त पश्यत
पूर्णा गन्धर्वकन्याभिः सर्वकामदुहॊ ऽकषयाः

5 इमे पलायमानानां नरकाः परत्युपस्थिताः
अकीर्तिः शाश्वती चैव पतितव्यम अनन्तरम

6 तान दृष्ट्वारीन विजयतॊ भूत्वा संत्याग बुद्धयः
नरकस्याप्रतिष्ठस्य मा भूतवशवर्तिनः

7 तयागमूलं हि शूराणां सवर्गद्वारम अनुत्तमम
इत्य उक्तास ते नृपतिना यॊधाः परपुरंजय

8 वयजयन्त रणे शत्रून हर्षयन्तॊ जनेश्वरम
तस्माद आत्मवता नित्यं सथातव्यं रणमूर्धनि

9 गजानां रथिनॊ मध्ये रथानाम अनु सादिनः
सादिनाम अन्तरा सथाप्यं पादातम इह दंशितम

10 य एवं वयूहते राजा स नित्यं जयते दविषः
तस्माद एवंविधातव्यं नित्यम एव युधिष्ठिर

11 सर्वे सुकृतम इच्छन्तः सुयुद्धेनाति मन्यवः
कषॊभयेयुर अनीकानि सागरं मकरा इव

12 हर्षयेयुर विषण्णांश च वयवस्थाप्य परस्परम
जितां च भूमिं रक्षेत भग्नान नात्यनुसारयेत

13 पुनरावर्तमानानां निराशानां च जीविते
न वेगः सुसहॊ राजंस तस्मान नात्यनुसारयेत

14 न हि परहर्तुम इच्छन्ति शूराः पराद्रवतां भयात
तस्मात पलायमानानां कुर्यान नात्यनुसारणम

15 चराणाम अचरा हय अन्नम अदंष्ट्रा दंष्ट्रिणाम अपि
अपाणयः पाणिमताम अन्नं शूरस्य कातराः

16 समानपृष्ठॊदर पाणिपादाः; पश्चाच छूरं भीरवॊ ऽनुव्रजन्ति
अतॊ भयार्ताः परणिपत्य भूयः; कृत्वाञ्जलीन उपतिष्ठन्ति शूरान

17 शूर बाहुषु लॊकॊ ऽयं लम्बते पुत्र वत सदा
तस्मात सर्वास्व अवस्थासु शूरः संमानम अर्हति

18 न हि शौर्यात परं किं चित तरिषु लॊकेषु विद्यते
शूरः सर्वं पालयति सर्वं शूरे परतिष्ठितम

अध्याय 9
अध्याय 1