अध्याय 7
1 [धृ]
अहॊ ऽभिहितम आख्यानं भवता तत्त्वदर्शिना
भूय एव तु मे हर्षः शरॊतुं वाग अमृतं तव
2 [विदुर]
शृणु भूयः परवक्ष्यामि मार्गस्यैतस्य विस्तरम
यच छरुत्वा विप्रमुच्यन्ते संसारेभ्यॊ विचक्षणाः
3 यथा तु पुरुषॊ राजन दीर्घम अध्वानम आस्थितः
कव चित कव चिच छरमात सथाता कुरुते वासम एव वा
4 एवं संसारपर्याये गर्भवासेषु भारत
कुर्वन्ति दुर्बुधा वासं मुच्यन्ते तत्र पण्डिताः
5 तस्माद अध्वानम एवैतम आहुः शास्त्रविदॊ जनाः
यत तु संसारगहनं वनम आहुर मनीषिणः
6 सॊ ऽयं लॊकसमावर्तॊ मर्त्यानां भरतर्षभ
चराणां सथावराणां च गृध्येत तत्र न पण्डितः
7 शारीरा मानसाश चैव मर्त्यानां ये तु वयाधयः
परत्यक्षाश च परॊक्षाश च ते वयालाः कथिता बुधैः
8 कलिश्यमानाश च तैर नित्यं हन्यमानाश च भारत
सवकर्मभिर महाव्यालैर नॊद्विजन्त्य अल्पबुद्धयः
9 अथापि तैर विमुच्येत वयाधिभिः पुरुषॊ नृप
आवृणॊत्य एव तं पश्चाज जरा रूपविनाशिनी
10 शब्दरूपरसस्पर्शैर गन्धैर्श च विविधैर अपि
मज्जमानं महापङ्के निरालम्बे समन्ततः
11 संवत्सरर्तवॊ मासाः पक्षाहॊ रात्रसंधयः
करमेणास्य परलुम्पन्ति रूपम आयुस तथैव च
12 एते कालस्य निधयॊ नैताज जानन्ति दुर्बुधाः
अत्राभिलिखितान्य आहुः सर्वभूतानि कर्मणा
13 रथं शरीरं भूतानां सत्त्वम आहुस तु सारथिम
इन्द्रियाणि हयान आहुः कर्म बुद्धिश च रश्मयः
14 तेषां हयानां यॊ वेगं धावताम अनुधावति
स तु संसारचक्रे ऽसमिंश चक्रवत परिवर्तते
15 यस तान यमयते बुद्ध्या स यन्ता न निवर्तते
याम्यम आहू रथं हय एनं मुह्यन्ते येन दुर्बुधाः
16 स चैतत पराप्नुते राजन यत तवं पराप्तॊ नराधिप
राज्यनाशं सुहृन नाशं सुत नाशं च भारत
17 अनुतर्षुलम एवैतद दुःखं भवति भारत
साधुः परमदुःखानां दुःखभैषज्यम आचरेत
18 न विक्रमॊ न चाप्य अर्थॊ न मित्रं न सुहृज्जनः
तथॊन्मॊचयते दुःखाद यथात्मा सथिरसंयमः
19 तस्मान मैत्रं समास्थाय शीलम आपद्य भारत
दमस तयागॊ ऽपरमादश च ते तरयॊ बरह्मणॊ हयाः
20 शीलरश्मि समायुक्ते सथितॊ यॊ मानसे रथे
तयक्त्वा मृत्युभयं राजन बरह्मलॊकं स गच्छति