अध्याय 182

महाभारत संस्कृत - उद्योगपर्व

1 भीष्म उवाच
समागतस्य रामेण पुनर एवातिदारुणम
अन्येद्युस तुमुलं युद्धं तदा भरतसत्तम

2 ततॊ दिव्यास्त्रविच छूरॊ दिव्यान्य अस्त्राण्य अनेकशः
अयॊजयत धर्मात्मा दिवसे दिवसे विभुः

3 तान्य अहं तत्प्रतीघातैर अस्त्रैर अस्त्राणि भारत
वयधमं तुमुले युद्धे पराणांस तयक्त्वा सुदुस्त्यजान

4 अस्त्रैर अस्त्रेषु बहुधा हतेष्व अथ च भार्गवः
अक्रुध्यत महातेजास तयक्तप्राणः स संयुगे

5 ततः शक्तिं पराहिणॊद घॊररूपाम; अस्त्रै रुद्धॊ जामदग्न्यॊ महात्मा
कालॊत्सृष्टां परज्वलिताम इवॊल्कां; संदीप्ताग्रां तेजसावृत्य लॊकान

6 ततॊ ऽहं ताम इषुभिर दीप्यमानैः; समायान्तीम अन्तकालार्कदीप्ताम
छित्त्वा तरिधा पातयाम आस भूमौ; ततॊ ववौ पवनः पुण्यगन्धिः

7 तस्यां छिन्नायां करॊधदीप्तॊ ऽथ रामः; शक्तीर घॊराः पराहिणॊद दवादशान्याः
तासां रूपं भारत नॊत शक्यं; तेजस्वित्वाल लाघवाच चैव वक्तुम

8 किं तव एवाहं विह्वलः संप्रदृश्य; दिग्भ्यः सर्वास ता महॊल्का इवाग्नेः
नानारूपास तेजसॊग्रेण दीप्ता; यथादित्या दवादश लॊकसंक्षये

9 ततॊ जालं बाणमयं विवृत्य; संदृश्य भित्त्वा शरजालेन राजन
दवादशेषून पराहिणवं रणे ऽहं; ततः शक्तीर वयधमं घॊररूपाः

10 ततॊ ऽपरा जामदग्न्यॊ महात्मा; शक्तीर घॊराः पराक्षिपद धेमदण्डाः
विचित्रिताः काञ्चनपट्टनद्धा; यथा महॊक्ला जवलितास तथा ताः

11 ताश चाप्य उग्राश चर्मणा वारयित्वा; खड्गेनाजौ पातिता मे नरेन्द्र
बाणैर दिव्यैर जामदग्न्यस्य संख्ये; दिव्यांश चाश्वान अभ्यवर्षं ससूतान

12 निर्मुक्तानां पन्नगानां सरूपा; दृष्ट्वा शक्तीर हेमचित्रा निकृत्ताः
परादुश्चक्रे दिव्यम अस्त्रं महात्मा; करॊधाविष्टॊ हैहयेशप्रमाथी

13 ततः शरेण्यः शलभानाम इवॊग्राः; समापेतुर विशिखानां परदीप्ताः
समाचिनॊच चापि भृशं शरीरं; हयान सूतं सरथं चैव मह्यम

14 रथः शरैर मे निचितः सर्वतॊ ऽभूत; तथा हयाः सारथिश चैव राजन
युगं रथेषा च तथैव चक्रे; तथैवाक्षः शरकृत्तॊ ऽथ भग्नः

15 ततस तस्मिन बाणवर्षे वयतीते; शरौघेण परत्यवर्षं गुरुं तम
स विक्षतॊ मार्गणैर बरह्मराशिर; देहाद अजस्रं मुमुचे भूरि रक्तम

16 यथा रामॊ बाणजालाभितप्तस; तथैवाहं सुभृशं गाढविद्धः
ततॊ युद्धं वयरमच चापराह्णे; भानाव अस्तं परार्थयाने महीध्रम

अध्याय 1
अध्याय 1