अध्याय 253

महाभारत संस्कृत - आरण्यकपर्व

1 [वै] ततॊ दिशः संप्रविहृत्य पार्था; मृगान वराहान महिषांश च हत्वा
धनुर्धराः शरेष्ठतमाः पृथिव्यां; पृथक चरन्तः सहिता बभूवुः

2 ततॊ मृगव्यालगणानुकीर्णं; महावनं तद विहगॊपघुष्टम
भरातॄंश च तान अभ्यवदद युधिष्ठिरः; शरुत्वा गिरॊ वयाहरतां मृगाणाम

3 आदित्यदीप्तां दिशम अभ्युपेत्य; मृगद्विजाः करूरम इमे वदन्ति
आयासम उग्रं परतिवेदयन्तॊ; महाहवं शत्रुभिर वावमानम

4 कषिप्रं निवर्तध्वम अलं मृगैर नॊ; मनॊ हि मे दूयति दह्यते च
बुद्धिं समाच्छाद्य च मे समन्युर; उद्धूयते पराणपतिः शरीरे

5 सरः सुपर्णेन हृतॊरगं यथा; राष्ट्रं यथा राजकम आत्तलक्ष्मि
एवंविधं मे परतिभाति काम्यकं; शौण्डैर यथा पीतरसश च कुम्भः

6 ते सैन्धवैर अत्यनिलौघवेगैर; महाजवैर वाजिभिर उह्यमानाः
युक्तैर बृहद्भिः सुरथैर नृवीरास; तदाश्रमायाभिमुखा बभूवुः

7 तेषां तु गॊमायुर अनल्प घॊषॊ; निवर्ततां मामम उपेत्य पार्श्वम
परव्याहरत तं परविमृश्य राजा; परॊवाच भीमं च धनंजयं च

8 यथा वदत्य एष विहीनयॊनिः; शालावृकॊ वामम उपेत्य पार्श्वम
सुव्यक्तम अस्मान अवमन्य पापैः; कृतॊ ऽभिमर्दः कुरुभिः परसह्य

9 इत्य एव ते तद वनम आविशन्तॊ; महत्य अरण्ये मृगयां चरित्वा
बालाम अपश्यन्त तदा रुदन्तीं; धात्रेयिकां परेष्यवधूं परियायाः

10 ताम इन्द्रसेनस तवरितॊ ऽभिसृत्य; रथाद अवप्लुत्य ततॊ ऽभयधावत
परॊवच चैनां वचनं नरेन्द्र; धात्रेयिकाम आर्ततरस तदानीम

11 किं रॊदिषि तवं पतिता धरण्यां; किं ते मुखं शुष्यति दीनवर्णम
कच चिन न पापैः सुनृशंस कृद भिः; परमाथिता दरौपदी राजपुत्री
अनिद्य रूपा सुविशालनेत्रा; शरीरतुल्या कुरुपुंगवानाम

12 यद्य एव देवी पृथिवीं परविष्टा; दिवं परपन्नाप्य अथ वा समुद्रम
तस्या गमिष्यन्ति पदं हि पार्थास; तथा हि संतप्यति धर्मराजः

13 कॊ हीदृशानाम अरिमर्दनानां; कलेशक्षमाणाम अपराजितानाम
पराणैः समाम इष्टतमां जिहीर्षेद; अनुत्तमं रत्नम इव परमूढः
न बुध्यते नाथवतीम इहाद्य; बहिश्चरं हृदयं पाण्डवानाम

14 कस्याद्य कायं परतिभिद्य घॊरा; महीं परवेक्ष्यन्ति शिताः शराग्र्याः
मा तवं शुचस तां परति भीरु विद्धि; यथाद्य कृष्णा पुनर एष्यतीति
निहत्य सर्वान दविषतः समग्रान; पार्थाः समेष्यन्त्य अथ याज्ञसेन्या

15 अथाब्रवीच चारु मुखं परमृज्य; धात्रेयिका सारथिम इन्द्रसेनम
जयद्रथेनापहृता परमथ्य; पञ्चेन्द्र कल्पान परिभूय कृष्णा

16 तिष्ठन्ति वर्त्मानि नवान्य अमूनि; वृक्षाश च न मलान्ति तथैव भग्नाः
आवर्तयध्वं हय अनुयात शीघ्रं; न दूरयातैव हि राजपुत्री

17 संनह्यध्वं सर्व एवेन्द्र कल्पा; महान्ति चारूणि च दंशनानि
गृह्णीत चापानि महाधनानि; शरांश च शीघ्रं पदवीं वरजध्वम

18 पुरा हि निर्भर्त्सन दण्डमॊहिता; परमूढ चित्ता वदनेन शुष्यता
ददाति कस्मै चिद अनर्हते तनुं; वराज्य पूर्णाम इव भस्मनि शरुचम

19 पुरा तुषाग्नाव इव हूयते हविः; पुरा शमशाने सरग इवापविध्यते
पुरा च सॊमॊ ऽधवरगॊ ऽवलिह्यते; शुना यथा विप्रजने परमॊहिते
महत्य अरण्ये मृगयां चरित्वा; पुरा शृगालॊ नलिनीं विगाहते

20 मा वः परियायाः सुनसं सुलॊचनं; चन्द्रप्रभाच्छं वदनं परसन्नम
सपृश्याच छुभं कश चिद अकृत्य कारी; शवा वै पुरॊडाशम इवॊपयुङ्क्षीत
एतानि वर्त्मान्य अनुयात शीघ्रं; मा वः कालः कषिप्रम इहात्यगाद वै

21 [य] भद्रे तूष्णीम आस्स्व नियच्छ वाचं; मास्मत सकाशे परुसाण्य अवॊचः
राजानॊ वा यदि वा राजपुत्रा; बलेन मत्ता वञ्चनां पराप्नुवन्ति

22 [वै] एतावद उक्त्वा परययुर हि शीघ्रं; तान्य एव वर्त्मान्य अनुवर्तमानाः
मुहुर मुहुर वयालवद उच्छसन्तॊ; जयां विक्षिपन्तश च महाधनुर भयः

23 ततॊ ऽपश्यंस तस्य सैन्यस्य रेणुम; उद्धूतं वै जावि खुरप्रणुन्नम
पदातीनां मध्यगतं च धौम्यं; विक्रॊशन्तं भीमम अभिद्रवेति

24 ते सान्त्व्य धौम्यं परिदीनसत्त्वाः; सुखं भवान एत्व इति राजपुत्राः
शयेना यथैवामिष संप्रयुक्ता; जवेन तः सैन्यम अथाभ्यधावन

25 तेषां महेन्द्रॊपमविक्रमाणां; संरब्धानां धर्षणाद याज्ञसेन्याः
करॊधः परजज्वाल जयद्रथं च; दृष्ट्वा परियां तस्य रथे सथितां च

26 परचुक्रुशुश चाप्य अथ सिन्धुराजं; वृकॊदरश चैव धनंजयश च
यमौ च राजा च महाधनुर्धरास; ततॊ दिशः संमुमुहुः परेषाम

अध्याय 2
अध्याय 2