अध्याय 85
1 [आ]
यदावसॊ नन्दने कामरूपी; संवत्सराणाम अयुतं शतानाम
किं कारणं कार्तयुगप्रधान; हित्वा तत्त्वं वसुधाम अन्वपद्यः
2 [य]
जञातिः सुहृत सवजनॊ यॊ यथेह; कषीणे वित्ते तयज्यते मानवैर हि
तथा तत्र कषीणपुण्यं मनुष्यं; तयजन्ति सद्यः सेश्वरा देवसंघाः
3 [आ]
कथं तस्मिन कषीणपुण्या भवन्ति; संमुह्यते मे ऽतर मनॊ ऽतिमात्रम
किं विशिष्टाः कस्य धामॊपयान्ति; तद वै बरूहि कषेत्रवित तवं मतॊ मे
4 [य]
इमं भौमं नरकं ते पतन्ति; लालप्यमाना नरदेव सर्वे
ते कङ्कगॊमायु बलाशनार्थं; कषीणा विवृद्धिं बहुधा वरजन्ति
5 तस्माद एतद वर्जनीयं नरेण; दुष्टं लॊके गर्हणीयं च कर्म
आख्यातं ते पार्थिव सर्वम एतद; भूयश चेदानीं वद किं ते वदामि
6 [आ]
यदा तु तान वितुदन्ते वयांसि; तथा गृध्राः शितिकण्ठाः पतंगाः
कथं भवन्ति कथम आभवन्ति; न भौमम अन्यं नरकं शृणॊमि
7 [य]
ऊर्ध्वं देहात कर्मणॊ जृम्भमाणाद; वयक्तं पृथिव्याम अनुसंचरन्ति
इमं भौमं नरकं ते पतन्ति; नावेक्षन्ते वर्षपूगान अनेकान
8 षष्टिं सहस्राणि पतन्ति वयॊम्नि; तथा अशीतिं परिवत्सराणि
तान वै तुदन्ति परपततः परपातं; भीमा भौमा राक्षसास तीक्ष्णदंष्ट्राः
9 [आ]
यद एनसस ते पततस तुदन्ति; भीमा भौमा राक्षसास तीक्ष्णदंष्ट्राः
कथं भवन्ति कथम आभवन्ति; कथं भूता गर्भभूता भवन्ति
10 [य]
अस्रं रेतः पुष्पफलानुपृक्तम; अन्वेति तद वै पुरुषेण सृष्टम
स वै तस्या रज आपद्यते वै; स गर्भभूतः समुपैति तत्र
11 वनस्पतींश चौषधीश चाविशन्ति; अपॊ वायुं पृथिवीं चान्तरिक्षम
चतुष्पदं दविपदं चापि सर्वम; एवं भूता गर्भभूता भवन्ति
12 [आ]
अन्यद वपुर विदधातीह गर्भ; उताहॊ सवित सवेन कामेन याति
आपद्यमानॊ नरयॊनिम एताम; आचक्ष्व मे संशयात परब्रवीमि
13 शरीरदेहादि समुच्छ्रयं च; चक्षुः शरॊत्रे लभते केन संज्ञाम
एतत तत्त्वं सर्वम आचक्ष्व पृष्टः; कषेत्रज्ञं तवां तात मन्याम सर्वे
14 [य]
वायुः समुत्कर्षति गर्भयॊनिम; ऋतौ रेतः पुष्परसानुपृक्तम
स तत्र तन्मात्र कृताधिकारः; करमेण संवर्धयतीह गर्भम
15 स जायमानॊ विगृहीत गात्रः; षड जञाननिष्ठायतनॊ मनुष्यः
स शरॊत्राभ्यां वेदयतीह शब्दं; सर्वं रूपं पश्यति चक्षुषा च
16 घराणेन गन्धं जिह्वयाथॊ रसं च; तवचा सपर्शं मनसा वेद भावम
इत्य अष्टकेहॊपचितिं च विद्धि; महात्मनः पराणभृतः शरीरे
17 [आ]
यः संस्थितः पुरुषॊ दह्यते वा; निखन्यते वापि निघृष्यते वा
अभाव भूतः स विनाशम एत्य; केनात्मानं चेतयते पुरस्तात
18 [य]
हित्वा सॊ ऽसून सुप्तवन निष्ठनित्वा; पुरॊधाय सुकृतं दुष्कृतं च
अन्यां यॊनिं पवनाग्रानुसारी; हित्वा देहं भजते राजसिंह
19 पुण्यां यॊनिं पुण्यकृतॊ वरजन्ति; पापां यॊनिं पापकृतॊ वरजन्ति
कीटाः पतंगाश च भवन्ति पापा; न मे विवक्षास्ति महानुभाव
20 चतुष्पदा दविपदाः षट्पदाश च; तथा भूता गर्भभूता भवन्ति
आख्यातम एतन निखिलेन सर्वं; भूयस तु किं पृच्छसि राजसिंह
21 [आ]
किंस्वित कृत्वा लभते तात लॊकान; मर्त्यः शरेष्ठांस तपसा विद्यया वा
तन मे पृष्टः शंस सर्वं यथावच; छुभाँल लॊकान येन गच्छेत करमेण
22 [य]
तपश च दानं च शमॊ दमश च; हरीर आर्जवं सर्वभूतानुकम्पा
नश्यन्ति मानेन तमॊ ऽभिभूताः; पुंसः सदैवेति वदन्ति सन्तः
23 अधीयानः पण्डितं मन्यमानॊ; यॊ विद्यया हन्ति यशः परेषाम
तस्यान्तवन्तश च भवन्ति लॊका; न चास्य तद बरह्म फलं ददाति
24 चत्वारि कर्माण्य अभयंकराणि; भयं परयच्छन्त्य अयथा कृतानि
मानाग्निहॊत्रम उत मानमौनं; मानेनाधीतम उत मानयज्ञः
25 न मान्यमानॊ मुदम आददीत; न संतापं पराप्नुयाच चावमानात
सन्तः सतः पूजयन्तीह लॊके; नासाधवः साधुबुद्धिं लभन्ते
26 इति दद्याद इति यजेद इत्य अधीयीत मे वरतम
इत्य अस्मिन्न अभयान्य आहुस तानि वर्ज्यानि नित्यशः
27 येनाश्रयं वेदयन्ते पुराणं; मनीषिणॊ मानसमानभक्तम
तन निःश्रेयस तैजसं रूपम एत्य; परां शान्तिं पराप्नुयुः परेत्य चेह