अध्याय 156

महाभारत संस्कृत - आदिपर्व

1 [वै] एतच छरुत्वा तु कौन्तेयाः शल्यविद्धा इवाभवन
सर्वे चास्वस्थ मनसॊ बभूवुस ते महारथाः

2 ततः कुन्तीसुतान दृष्ट्वा विभ्रान्तान गतचेतसः
युधिष्ठिरम उवाचेदं वचनं सत्यवादिनी

3 चिररात्रॊषिताः समेह बराह्मणस्य निवेशने
रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर

4 यानीह रमणीयानि वनान्य उपवनानि च
सर्वाणि तानि दृष्टानि पुनः पुनर अरिंदम

5 पुनर दृष्टानि तान्य एव परीणयन्ति न नस तथा
भैक्षं च न तथा वीर लभ्यते कुरुनन्दन

6 ते वयं साधु पाञ्चालान गच्छाम यदि मन्यसे
अपूर्व दर्शनं तात रमणीयं भविष्यति

7 सुभिक्षाश चैव पाञ्चालाः शरूयन्ते शत्रुकर्शन
यज्ञसेनश च राजासौ बरह्मण्य इति शुश्रुमः

8 एकत्र चिरवासॊ हि कषमॊ न च मतॊ मम
ते तत्र साधु गच्छामॊ यदि तवं पुत्र मन्यसे

9 [य] भवत्या यन मतं कार्यं तद अस्माकं परं हितम
अनुजांस तु न जानामि गच्छेयुर नेति वा पुनः

10 [वै] ततः कुन्ती भीमसेनम अर्जुनं यमजौ तथा
उवाच गमनं ते च तथेत्य एवाब्रुवंस तदा

11 तत आमन्त्र्य तं विप्रं कुन्ती राजन सुतैः सह
परतस्थे नगरीं रम्यां दरुपदस्य महात्मनः

अध्याय 3
अध्याय 1